________________
७ शतकम् ] संकृतगाथासप्तशती।
३३३ सपाटवोपालम्भपण्डिता काचित्खण्डिता प्रातरुपगतं दयितं चन्द्रव्यपदेशेनाह
अणुहुत्तो करफंसो सअलअलापुण्ण पुण्णदिअहम्मि । वीआसङ्गकिसङ्गअ एहिं तुह वन्दिमो चलणे ॥५७ ॥ [अनुभूतः करस्पर्शः सकलकलापूर्ण पूर्णदिवसे।
द्वितीयासङ्गकृशाङ्ग इदानीं तव वन्दामहे चरणौ ॥] अनुभूतः पूर्णदिने सकलकलापूर्ण तव करस्पर्शः।
वन्दामहे द्वितीयासङ्गकृशाङ्गाधुना चरणौ ॥ ५७॥ षोडशकलाभिः पूर्ण (अयि चन्द्र), पूर्णदिने तव कलाभिः पूर्णे पूर्णिमादिवसे तव किरणस्पर्शोऽनुभूतः। द्वितीयासङ्गेन द्वितीयातिथेः संबन्धेन कृशशरीर! इदानीं वन्दनीयचरणोसि । व्यङ्ग्यविधया तु दयितमाह-चतुःषष्टिकलाभिः पूर्ण पूर्णदिने तव सङ्गसौख्यपूर्णे दिने । अथवा प्राकृते 'पुण्णदिअहम्मि' इत्यस्य पुण्यदिवस इत्यर्थः। ततश्वमत्पुण्योदयदिने अथवा शोभने दिने तव हस्तस्पर्शोऽनुभूतः । इदानी द्वितीयस्याः मत्तोऽ. परस्याः सपन्याः सङ्गेन कृशाङ्ग ! तव चरणौ वन्दामहे, इदानीं त्वं चरणयोः प्रणम्य एव न तु सविधमुपगम्य इत्यर्थः। दूरत एव नमस्करणीयोसीति भावः। कोपतः प्रत्याख्याने प्रसिद्धा किल चरणवन्दनोक्तिः। सकलकलापूर्णति सासूयोक्त्या-त्वं सकलशाव्यकलाभिः पूर्णोसि । एवं च भाग्यैरभिनन्दनीये पुण्येपि दिवसे तव करस्पर्श एवं अस्मत्कृते भूरिभाग्यमभूत् । द्वितीयाभिः साकं तु सङ्गोपि भवति, यस्याधिक्येन कार्यमप्यभवत् । अहो धन्योसि ?' इतीया व्यज्यते । किञ्च-स किल कश्चन पुण्यो दिवस आसीद्यत्र ते करस्पर्शः (विवाहावसरे प्रथमप्रथमं पाणिग्रहः) मयानुभूतः । इदानीमन्यासङ्गकृशाङ्गात्त्वत्तो दूरपरिस्थितिरेव साधीयसी । एवं च-'पाणिगृहीतीमपि मां परिक्लेश्य अन्यासु शरीरशोषयित्रीषु निर्भरं रमसे' इत्याक्षेपो ध्वन्यते। अथवाअस्माभिरस्मत्पुण्योदयदिने तव करग्रहणमात्रमनुभूतम् । इदानीं वास्तवे या ते सहधर्मिणी (भार्या), तस्यः सङ्गेन त्वं कृशाङ्गो दृश्यस एवेति कोपवैपरीसं व्यज्यते । 'द्वितीया सहधर्मिणी' इत्यमरः । अप्रस्तुतेन चन्द्रवृत्तान्तेन प्रियतमचेष्टासूचनादप्रस्तुतप्रशंसा । अनया च-'भाग्योदयसूचके शोभने दिने तव करस्पर्शो यो मयाऽनुभूतः, [भूतकालिकन सोऽनुभवकालो व्यतीतः] इदानीं तव चरणयोः प्रणामः। अर्थात्सपत्नीाग्निदाहापेक्षया त्वत्तो दूरपरिस्थितिरेव सुखावहा' इत्युपालम्भो व्यज्यत इत्यलंकारेण वस्तुध्वनिः। 'खण्डिता काप्यन्यापदेशेन कान्तं सचमत्कारमाह' इत्यवतरणम् । 'अत्र समासोक्त्यलङ्कारेण चन्द्रकान्तयोरुपमानोपमेयभावो व्यङ्ग्यः' इत्युपसंहारश्व गङ्गाधरटीकायाम्। प्रियतमगमने हृदयदृढीकरणार्थमुक्ता दृढानुरक्ता नायिका सखीमाह
दूरन्तरिए वि पिए कह वि णिअत्ताइँ मज्झ णअणा। हिअअं उण तेण समं अज वि अणिवारिअं भमइ ॥ ५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org