Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 396
________________ ७ शतकम् ] संस्कृतगाथासप्तशती। ३११ केवलं पीडयतीति नायकवृत्तान्तो व्यज्यते । विकासयितुं न जानातीत्युक्त्या-'रति विदग्धाः नवोढां बालामपि वैदग्ध्योपायैरपरिखेदरतियोग्यां विदधते' इति नायकवैदग्ध्यं सूच्यते । 'उद्वेल्लितुं विकासयितुम्' इति गङ्गाधरः । चलनार्थकस्याणिजन्तस्य केवल 'वेल' धातोरयमर्थो दुरुपपाद एव । विपरीतरताभिलाषुकः कश्चित्प्रियतमामुत्साहयन्नाह दरवेविरोरुजुअलासु मउलिअच्छीसु लुलिअचिहुरासु । पुरिसाइरीसु कामो पिआसु सजाउहो वसइ ॥१४॥ [ईषद्वेपनशीलोल्युगलासु मुकुलिताक्षीषु लुलितचिकुरासु । पुरुषायितशीलासु कामः प्रियासु सज्जायुधो वसति ॥] दरवेपनोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु । पुरुषायितासु कामः प्रियासु सजायुधो वसति ॥१४॥ ऊरुयुग एव सकलभरसमर्पणात्-दरवेपनम् ईषत्कम्पनशीलम् ऊरुयुगं यासां तासु । वेपनमित्यत्र नन्द्यादित्वायुः । सज्जायुधपदेन-मोहन-वशीकरणादिकामशराणां यत्फलं तदनुपदमेव भवतीति सूच्यते । तिष्ठति-विहरतीत्याद्यनुपादाय 'वसति' पदेनगृहबुद्ध्या निर्विशङ्कमव्यभिचरितं चावस्थितिय॑ज्यते । 'प्रिया' इत्युक्त्या ‘एवं विधरतैः प्रियतमस्य हृदि सुतरां प्रीतिर्भवति, तथा च त्वं यदि मत्प्रीतिं कामयसे तर्हि स्वीकुरु मत्प्रार्थनामित्यात्माभिलाषो ध्वन्यते । पुरुषायितस्योदाहरणे परिगृहीतेयं गाथा स० कण्ठाभरणे (५ परि.)। __'मम सुखानुकूलं नाचरसि' इत्याद्यन्यनायिकासकतया पदे पदे उपालभमानं प्रियतमं प्रति कार्चित्साकूतमाह जं जं ते ण सुहाअइ तं तं ण करेमि जं ममाअत्तम् । अह चिअ जं ण सुहामि सुहअ तं किं ममाअत्तम् ॥१५॥ [यद्यत्ते न सुखायते तत्तन्न करोमि यन्ममायत्तम् । ___ अहमेव यन्न सुखाये सुभग तत्किं ममायत्तम् ॥] यद्यत्ते न हि सुखयति तत्तन्न करोमि यन्ममायत्तम् । सुखयामि यदहमेव न सुभग नु तत्कि ममायत्तम् ॥ १५॥ अहमेव यत् यदि न सुखयामि सुखमुत्पादयामि हे सुभग! तत्किं नु ममाधीनम् ? अपि तु नेत्यर्थः । सुभगेल्यामन्त्रणेन 'अन्यनायिकाप्रीतिमुपलभ्य सौभाग्यगर्वितस्य ते सम्प्रत्यहमेव चक्षुःशूलायिता' इत्युपालम्भो ध्वन्यते । ममाऽनधीनमित्युक्त्या-संप्रति नाहं तव प्रीतिकारिणी, ततोपि दैवपरतन्त्रा दुःखं जीवामीति गूढकोपोभिव्यज्यते । दर्शनादिषु लज्जापरतत्रामपि मां कथालापस्ते सुखयतीति नायकं समुत्साहयन्ती काचिल्लजाखभावमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446