Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
३२४
काव्यमाला।
उअ ओल्लिज्जइ मोहं भुअंगकित्तीअ कडअलग्गाइ । ओज्झरधारासद्धालुएण सीसं वणगएण ॥४०॥ [पश्याक्रियते मोघं भुजङ्गकृत्तौ कटकलमायाम् ।
निझरधाराश्रद्धालुकेन शीर्ष वनगजेन ॥] पश्य मुधार्दीक्रियते भुजङ्गकृत्तौ हि कटकलग्नायाम् । निर्झरधाराश्रद्धालुकेन शीर्ष वनगजेन ॥ ४०॥ प्रचण्डातपतप्तेन वनगजेन गिरिनितम्बलग्नायां भुजङ्गकृत्तौ (सर्पकञ्चुके ) निझरधाराप्रतीतिमता सता निजशीर्ष मुधैव निरर्थकमेवाक्रियते, आर्दीकरणमभिनीयते इत्यर्थः । भुजङ्गकृत्तिपदेन-भयङ्करजनसम्बन्धिनी सा नोपसर्पणे सुखावहा' इति जारं प्रति सूच्यते । वनगजेनेत्यनेन-अदाक्षिण्यादेव तां मोघमनुवर्तस इति व्यज्यते । ततश्चअनागरिक इव त्वं निष्ठुरपरिजनायास्तस्याः सकाशान्मुधैव रसप्राप्तिमाशास्से इति नायक प्रत्यभिव्यज्यते । 'अप्पिजई' इति पाठे 'अर्ग्यते' इत्यर्थः । जारस्यान्यमनस्कतासंपादनार्थं मध्याह्नाभिसारिकायाः सेयमुक्तिर्वा । 'नास्तित्त्वविचारक्षमो भवतीति दर्शयन्कोपि मध्याह्नवर्णनमाह' इति गङ्गाधरावतरणम् ।
गुणवत्यामपि पूर्वनायिकायामपरितुष्य गुणान्तरलालसया नायिकान्तरगामिनं नायकं सोपालम्भं शिक्षयन्ती काचिदन्यापदेशविधयाह
कमलं मुअन्त महुअर पिककइत्थाण गन्धलोहेण । आलेक्खलड्डअं पामरो व छिविऊण जाणिहिसि ॥४१॥ [कमलं मुञ्चन्मधुकर पक्ककपित्थानां गन्धलोभेन ।
आलेख्यलड्डुकं पामर इव स्पृष्ट्वा ज्ञास्यसि ॥] कमलं मुश्चन्मधुकर पक्ककपित्थानुगन्धलोभेन ।
पामर इव विज्ञास्यसि संस्पृश्यालेख्यलड्डकं परतः॥४१॥ अप्रतिबुद्धः पामरो यथा चित्रस्थं मोदकादिकमालोक्य तत्प्राप्याशया मनसि मोदमानो हस्तस्थितं भक्ष्यमसंतोषात्परित्यज्य तल्लिप्सया गतः स्पृष्ट्वा तत्स्वरूपमवगत्य पश्चादनुतप्यते एवं त्वमपि नीरसस्य कर्कशस्पर्शस्य कपित्थस्य गन्धमात्रादाकृष्टचेताः संमुखोपनतं कमलं मुञ्चन् स्पर्शसमनन्तरमेव द्वयोरनयोरन्तरं परिज्ञायानुतापं प्राप्स्यसीति भावः। मधु संचिन्वानस्त्वं पाषाणप्रायेस्मिन्प्रवर्तस इत्यहो ते आत्मानुरूपा प्रवृत्तिरिति गूढोपालम्भो मधुकरेत्यामन्त्रणेन ध्वन्यते । पक्केति विशेषणेन-परिपाकका. लिकः सोयं गन्धः साम्प्रतिक एव, नाग्रतः स्थायीति वैगुण्यं सूच्यते। तथा च-पूर्णयौवनवशादेव तस्याः सेयमस्थायिनी लोभनीयता, न सहजेति नायकं प्रत्यभिव्यज्यते। अनुगन्धेत्यनुपदेन-सौयं गन्धोप्यनुगतमात्रो न सहज इति सूच्यते। आलेख्यलड्डके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446