Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 408
________________ संस्कृतगाथासप्तशती । [ धवलो जीवति तव कृते धवलस्य कृते जीवन्ति गृष्टयः । जीव हे गौः अस्माकमपि जीवितेन गोष्ठं त्वदायत्तम् ॥ ] ७ शतकम् ] धवलो जीवति तुभ्यं धवलाय च गृष्टयोपि जीवन्ति । गौर्जीव जीवितेन हि गोष्टमिदं नस्त्वदायत्तम् ॥ ३८ ॥ धवलो वृषश्रेष्ठः तुभ्यं त्वदर्थं त्वां सुखयितुं त्वत्कृते इत्यर्थः, जीवति । धवलार्थं च गृष्टय एकवारं प्रसूता गोयुवत्यो जीवन्ति । अतो हे गौस्त्वं जीव । यतो जीवितेन ( भवज्जीवितेन हेतुना ) नः इदं गोष्ठं त्वदायत्तं त्वदधीनम् तव जीवनेनैव सर्वमिदं गोष्ठं जीवतीत्यर्थः । एकवारमात्रं प्रसूतानाम् अग्रे च प्रसवयोग्यानां युवतीनां गवां प्रसवादिकं सर्वमवरुध्यत इत्यतिशयं द्योतयितुं गृष्टिपदम् । सुखं तिष्ठतीत्यादिस्थाने जीवतीति कथनेन - जीवित- स्थितिरेव त्वदधीना का कथा सुखादेरित्यतिशयो व्यज्यते । तम्बा गौः । 'धवला गवि वृषश्रेष्ठे पुमान्' इति, 'अथ गृष्टिः सकृत्प्रसूतगवि' इति च मेदिनी । त्वामवलम्ब्यैव सर्वोयं परिकरः प्रचलतीति परिहासविधया नायिकां प्रत्यभिव्यज्यते । , पथि गच्छन्नपि पान्थः प्रियाप्रणयपरवशो निजप्रियतमावयवसमानतां यत्र कुत्रचिदवलोकयंस्तत्स्मरणोत्कण्ठावशाद्विवशं तत्रासज्यते । भवांस्तु अनुवर्तनपरामपीमामुपेक्षमाणः खेदयतीति गूढमुपालभमाना सखी नायकं प्रत्याह ३२३ अग्घाइ छिवह चुम्बइ ठेवइ हिअअम्हि जणिअरोमञ्चो । जाआकवोलसरिसं पेच्छइ पहिओ महुअपुष्कम् ॥ ३९ ॥ [ आजिघ्रति स्पृशति चुम्बति स्थापयति हृदये जनितरोमाञ्चः । जायकपोलसदृशं पश्यत पथिको मधूकपुष्पम् ॥ ] स्पृशति विजिघ्रति चुम्बति हृदये निदधाति जनितरोमाञ्चः । पथिको मधूकपुष्पं पश्यत जायाकपोलसमम् ॥ ३९ ॥ पथिको जायाकपोलसमं मधूकपुष्पं स्पृशतीत्यादि पश्यत । जायाकपोलसाम्यं दृष्ट्वा सोत्कण्ठः पूर्वं स्पृशति, ततो वर्धिताभिलाषस्तजिघ्रति, ततो विजृम्भितपूर्व वासन - म्बति, ततोनुस्मृतप्रियाविरहः सविषादौत्सुक्यं प्रणयवशादुरसि निदधातीति क्रमशो भावविजृम्भितिः सूचिता । ततश्च - तत्साम्यमात्रेण पथिको मधूकपुष्पं बहु मन्यते मन्दानुरागस्त्वं तु समक्षोपस्थितामप्युपेक्षसे इति प्रियं प्रत्युपालम्भो ध्वन्यते । 'यो यस्य प्रियस्तस्य तदवयवानुकारिणि प्रीतिर्भवतीति निदर्शयन्कोपि सहचरमाह ' -इति गङ्गाधरः । अन्तःकुटिलां तां मुधैवानुकूलामिव मन्वानो मोघमेवोपसेवसे इति नायकं कस्यावन सकाशान्निवर्तयितुं दूती अन्यापदेशेनाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446