________________
संस्कृतगाथासप्तशती ।
[ धवलो जीवति तव कृते धवलस्य कृते जीवन्ति गृष्टयः । जीव हे गौः अस्माकमपि जीवितेन गोष्ठं त्वदायत्तम् ॥ ]
७ शतकम् ]
धवलो जीवति तुभ्यं धवलाय च गृष्टयोपि जीवन्ति । गौर्जीव जीवितेन हि गोष्टमिदं नस्त्वदायत्तम् ॥ ३८ ॥
धवलो वृषश्रेष्ठः तुभ्यं त्वदर्थं त्वां सुखयितुं त्वत्कृते इत्यर्थः, जीवति । धवलार्थं च गृष्टय एकवारं प्रसूता गोयुवत्यो जीवन्ति । अतो हे गौस्त्वं जीव । यतो जीवितेन ( भवज्जीवितेन हेतुना ) नः इदं गोष्ठं त्वदायत्तं त्वदधीनम् तव जीवनेनैव सर्वमिदं गोष्ठं जीवतीत्यर्थः । एकवारमात्रं प्रसूतानाम् अग्रे च प्रसवयोग्यानां युवतीनां गवां प्रसवादिकं सर्वमवरुध्यत इत्यतिशयं द्योतयितुं गृष्टिपदम् । सुखं तिष्ठतीत्यादिस्थाने जीवतीति कथनेन - जीवित- स्थितिरेव त्वदधीना का कथा सुखादेरित्यतिशयो व्यज्यते । तम्बा गौः । 'धवला गवि वृषश्रेष्ठे पुमान्' इति, 'अथ गृष्टिः सकृत्प्रसूतगवि' इति च मेदिनी । त्वामवलम्ब्यैव सर्वोयं परिकरः प्रचलतीति परिहासविधया नायिकां प्रत्यभिव्यज्यते ।
,
पथि गच्छन्नपि पान्थः प्रियाप्रणयपरवशो निजप्रियतमावयवसमानतां यत्र कुत्रचिदवलोकयंस्तत्स्मरणोत्कण्ठावशाद्विवशं तत्रासज्यते । भवांस्तु अनुवर्तनपरामपीमामुपेक्षमाणः खेदयतीति गूढमुपालभमाना सखी नायकं प्रत्याह
३२३
अग्घाइ छिवह चुम्बइ ठेवइ हिअअम्हि जणिअरोमञ्चो । जाआकवोलसरिसं पेच्छइ पहिओ महुअपुष्कम् ॥ ३९ ॥
[ आजिघ्रति स्पृशति चुम्बति स्थापयति हृदये जनितरोमाञ्चः । जायकपोलसदृशं पश्यत पथिको मधूकपुष्पम् ॥ ]
स्पृशति विजिघ्रति चुम्बति हृदये निदधाति जनितरोमाञ्चः । पथिको मधूकपुष्पं पश्यत जायाकपोलसमम् ॥ ३९ ॥
पथिको जायाकपोलसमं मधूकपुष्पं स्पृशतीत्यादि पश्यत । जायाकपोलसाम्यं दृष्ट्वा सोत्कण्ठः पूर्वं स्पृशति, ततो वर्धिताभिलाषस्तजिघ्रति, ततो विजृम्भितपूर्व वासन - म्बति, ततोनुस्मृतप्रियाविरहः सविषादौत्सुक्यं प्रणयवशादुरसि निदधातीति क्रमशो भावविजृम्भितिः सूचिता । ततश्च - तत्साम्यमात्रेण पथिको मधूकपुष्पं बहु मन्यते मन्दानुरागस्त्वं तु समक्षोपस्थितामप्युपेक्षसे इति प्रियं प्रत्युपालम्भो ध्वन्यते । 'यो यस्य प्रियस्तस्य तदवयवानुकारिणि प्रीतिर्भवतीति निदर्शयन्कोपि सहचरमाह ' -इति गङ्गाधरः ।
अन्तःकुटिलां तां मुधैवानुकूलामिव मन्वानो मोघमेवोपसेवसे इति नायकं कस्यावन सकाशान्निवर्तयितुं दूती अन्यापदेशेनाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org