________________
३२२
काव्यमाला |
पप्पुल्लघणकलम्बा गिद्धोअसिलाअला मुअमोरा । पसरन्तोज्झरमुहला ओसाहन्ते गिरिग्गामा ॥ ३६ ॥ [ प्रोत्फुल्लघनकदम्बा निधतशिलातला मुदितमयूराः । प्रसरन्निर्झरमुखरा उत्साहयन्ति गिरिग्रामाः ॥ ]
प्रोत्फुल्लघन कदम्बा निर्धौत शिलाः प्रमत्तके कि कुलाः । उत्साहयन्ति निर्यनिर्झरमुखरा गिरिग्रामाः ॥ ३६ ॥
प्रथमविशेषणेन संभोगस्योद्दीपनविभावः, द्वितीयेन सुरतसामयिकं शयनस्थलम्, तृतीयेन अन्यमनस्कतासंपादनेन सुचिरसुरतसौकर्यं संभोगानन्तरं विनोदसंभारो वा, चतुर्थेन स्वनितशिञ्जितमणितादिनिह्नवसौकर्यं च सूच्यते । ततश्च कामिजनमनोहरायामस्यां प्रावृषि गिरिग्रामेषु सर्वविधं रमणसौकर्यमिति स्वैरमभिसारस्तेष्वस्तु, इति प्रियतमं प्रत्यभिव्यज्यते ।
नीरसापि सा कामकलाकोविदस्य तस्य सुरतोपचारचातुर्यचर्यया संप्रति समधिकं सरसान्तरा सहृदयहृदयावर्जिका च जातेति नायकस्य दाक्षिण्यं ख्यापयन्ती दूती काचित्कामिनीजनमनोरञ्जनार्थंमन्यापदेशेनाह—
तह परिमलिआ गोवेण तेण हत्थं पि जा ण ओल्लेइ । स चिअ घेणू एहिं पेच्छसु कुडदोहिणी जाओ ॥ ३७ ॥ [ तथा परिमलिता गोपेन तेन हस्तमपि या नार्द्रयति । सैव धेनुरिदानीं प्रेक्षध्वं कुटदोहिनी जाता ॥ ]
नार्द्रयति हस्तमपि या गोपेन तथा तु तेन परिमलिता । सैव हि धेनुरिदानीं पश्यत कुटदोहिनी जाता ॥ ३७ ॥
या धेनुर्दोहनसमये खदुग्धेन दोग्धुर्हस्तमपि नार्द्रयवि धारायास्तु का कथा, निपुणेन तेन गोपेन तथा परिमलिता स्तनपृष्ठादिपरामर्शेन तेन प्रकारेण परामृष्टा यथा सैव धेनुरिदानीं दुग्धघटपूरिका जातेति पश्यत । घटपरिमितं दुग्धं ददातीति भावः । कुटो घटः । व्यञ्जनया च कामकलाचतुरेण नायकेन करिहस्तादिविन्यासेन तेन प्रकारेण परामृष्टा यथा पूर्वं किञ्चिदप्यद्रवन्ती सा सम्प्रति बहुतरं स्मरजलं क्षरतीत्यर्थः । रतिदाक्षिण्यदीक्षितेन तेन सह बद्धप्रणया भवत्योपि तच्चातुर्यपरिचयं प्राप्स्यथेति शृण्वतीः प्रत्यभिव्यज्यते ।
सर्वातिशायि कस्याश्चित्सौभाग्यं सूचयन्ती सखी सपरिहासमन्यापदेशेनाहधवल जिअ तुह कए धवलस्स कए जिअन्ति गिट्ठीओ । जिअ तम्बे अम्ह वि जीविएण गोट्टं तुमाअत्तम् ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org