________________
७ शतकम् ]
संस्कृतगाथासप्तशती ।
.३२१
भरणे । 'अनुकूले विधावमङ्गलान्यपि मङ्गलानि भवन्तीति निदर्शयन्कश्चिदाह' इति गङ्गाधरः ।
अधरे दंशचिह्नमवलोक्य परस्त्रीसङ्गशङ्कया पशुकल्पानां पामरीणामपि निरपराधेपि पत्यौ प्रणयवशादीर्ष्या भवति । ततस्तु महाकुलीनायाः प्रकामग्रहिलप्रणयाया मनस्विन्यास्तस्याः प्रत्यक्षप्रेक्षितव्यली के त्वयि तु किं वाच्यम् । अतः पदप्रणामेनैवैनां प्रसादय । न पुनः कालहरणं श्रेयसे इत्यनुनयपराङ्मुखं नायकं प्रति दूत्याह -
महुमच्छिआइ दट्ठे दहूण मुहं पिअस्स सूणोट्ठम् |
ईसाई पुलिन्दी रुक्खच्छाअं गआ अण्णम् ॥ ३४ ॥ [ मधुमक्षिकया दष्टं दृष्ट्वा मुखं प्रियस्योच्छूनोष्ठम् । ईर्ष्यालुः पुलिन्दी वृक्षच्छायां गतान्याम् ॥ ] दष्टं मधुमक्षिका मुखमुच्छ्रनोष्ठमैक्ष्य दयितस्य । अन्यां वृक्षच्छायां गता पुलिन्दी किलेर्ष्यालुः ॥ ३४ ॥
आ - ईक्ष्य, दृष्ट्वा । दयितस्य न तु पत्युः । यस्या हि प्रियतमेऽत्यन्तं प्रणयो भवति तस्या एव अन्याभिषङ्गशङ्कयापि प्रणयकोपो भवति । ततश्च त्वयि दृढानुरागामिमां किमित्युपेक्षसे । प्रणयवतीमिमां सबहुमानमनुनयस्वेति प्रियं प्रत्यभिव्यज्यते । या सह कृतकलहा त्वत्समागमप्रतीक्षया निर्जने सा तिष्ठतीति जारं प्रति दूत्या इयमुतिरिति कश्चित् ।
स्वयं दूतिका पथिकं सूचयन्ती सखीमाह
घण्णा वसन्ति णीसङ्कमोहणे बहलपत्तलवइम्मि । वाअन्दोलणओणविअवेणुगहणे गिरिग्गामे ॥ ३५ ॥ [ धन्या वसन्ति निःशङ्कमोहने बहलपत्रलवृतौ । वातान्दोलनावनामितवेणुगहने गिरिग्रामे ॥ ]
धन्या वसन्ति निःशङ्कमोहने बहलपत्रलावरणे । वातान्दोलन विनमितवेणुविगहने गिरिग्रामे ॥ ३५ ॥
:
बहलैर्निबिडैः पत्रलैर्बहुलपत्रयुक्तैः (वृक्षैः ) आवरणं वेष्टनं यत्र । वातान्दोलनेन विनमितैर्वेणुभिर्गहने संबाधे । अत एव निःशङ्कं मोहनं सुरतं यत्र तथाभूते गिरिग्रामे ( पर्वतोपरि निविष्टे ग्रामे ) धन्या वसन्ति । यदि त्वमभिनन्दनीयभाग्योसि तर्हि वृक्षावरणवेष्टिते अपरिलक्षणीय सुचिरसुरत सौख्ये स्मिन् ग्रामे मया सह विहरेति पान्थं प्रत्यभिव्यज्यते । 'गिरिग्रामप्रशंसाच्छलेनासती जारं प्रति स्वच्छन्दाभिसारस्पृहामाह' इति गङ्गाधरः ।
दर्शितशोभाविप्रकर्षासु वर्षासु गिरिग्रामाणां रमणीयतातिशयं प्रतिपादयन्ती काचि तेषु रमणाय रमणायेजितं ददाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org