________________
३२०
काव्यमाला।
ग्रामनायकः श्वसिति । 'यावच्छ्वासास्तावदाशा' इति कथनानुसारमस्मिन् जीवति लोकानां भयमेव कुत इति भावः । परं कथञ्चित्प्रत्युज्जीवितः प्रत्यागतप्राणो यदि विन्ध्यारोहणकथां शृणोति तदा खाश्रितजनपलायनश्रवणेन जनितमानभङ्गोसौ अवश्यं जीवितं त्यजति । 'पल्ली' पदेन 'समग्रोपि पल्लीवासी जनोऽस्य रक्षणीय' इति सूच्यते । श्वसितीत्यनेन 'यावदेकोपि श्वासस्तावत्पल्लीरक्षणमयमात्मनः कर्तव्यं मन्यते' इति कर्तव्यनिष्ठा व्यज्यते । जीवितं त्यजेदिति संभावनार्थकलिङः स्थाने लट्प्रयोगेण 'जीवितत्यागस्य संभावनैव नास्ति प्रत्युत मानभङ्गे सति जीवितत्यागो निश्चितं वर्तमान एवं' इति मनखितातिशयो ध्वन्यते ।
स्निग्धो जनो निजस्नेहिनो हितमनुसंधाय मरणदशायामपि भद्रमेवोपदिशतीति निदर्शयन् कश्चित्सहचरमाह
अप्याहेइ मरन्तो पुत्तं पल्लीवई पअत्तेण । मह णामेण जह तुमं ण लजसे तह करेजासु ॥ ३२॥ [शिक्षयति म्रियमाणः पुत्रं पल्लीपतिः प्रयत्नेन ।
मम नाम्ना यथा त्वं न लजसे तथा करिष्यसि ॥] शिक्षयति नियमाणः पुत्रं पल्लीपतिः प्रयत्नेन ।
मम नाम्ना न यथा त्वं विलजसे सुत करिष्यसेङ्ग तथा ॥३२॥ एवंविधप्रतापशालिन एवंविधो निर्गुणः पुत्र इति पितुर्नामग्रहणस्य पुत्रपक्षे लजा.. हेतुत्वम् । अथवा अमुकस्य पुत्रोयमिति पितृनाम्ना निर्गुण एव व्यपदिश्यते पूज्यते चेति नाम्नो लज्जाहेतुत्वम् । मत्पुत्र इति प्रसिद्ध्यन् यथा न लज्जितो भवसि तथा कार्याणि करिष्यसीत्यर्थः। आत्मगुणैः प्रसिद्धेन त्वया निजवंशमर्यादोचितान्येव कार्याणि कार्याणीति तात्पर्यम् । अङ्ग इति संबोधने । 'अप्याहेई' इत्यस्य शिक्षयति संदिशतीति वार्थः।
प्रियप्राणाः पतिव्रताः प्रणयपरिपाकेनैव प्रेतमपि प्रियतमं प्रत्युज्जीव्य पुनः प्राप्नुवन्ति तत्प्रणयप्रमोदं किं पुनस्तस्मिन्प्रोषिते इति विरह विह्वलां कांचिग़ढयन्ती काचिदाह
अणुमरणपत्थिआए पञ्चागअजीविए पिअअमम्मि । वेहवमण्डणं कुलवहूअ सोहग्गअंजाअम् ॥ ३३ ॥ [अनुमरणप्रस्थितायाः प्रत्यागतजीविते प्रियतमे।
वैधव्यमण्डनं कुलवध्वाः सौभाग्यकं जातम् ॥] अनुमरणनिर्गतायाः प्रत्यागतजीवितेथ तदयिते ।
वैधव्यमण्डनं कुलवध्वाः सौभाग्यकं जातम् ॥ ३३ ॥ अनुमरणार्थ निर्गतायाः प्रस्थितायाः सौभाग्यकं सौभाग्यरूपं जातम् , सौभाग्यमण्डनं जातमिति यावत् । करुणानन्तरे अनुभवार्थोयं संभोग इत्युदाहृतेयं गाथा स० कण्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org