________________
संस्कृतगाथासप्तशती ।
अवहुवे पुतो मे एक्ककण्डविनिवाई | तह सोह्राइ पुलइओ जह कण्डकरण्डअं वहह ॥ ३० ॥ [ गजवधूवैधव्यकरः पुत्रो मे एककाण्डविनिपाती ।
तथा खुषया प्रलोकितो यथा काण्डसमूहं वहति ॥ ] गजव धुवैधव्यकरः पुत्रो मे होककाण्डविनिपाती । खुषया तथेक्षितः किल काण्डकरण्डं यथा वहति ॥ ३० ॥ एकं काण्डं बाणं विनिपातयति क्षिपति तच्छील:, ( ततोऽपि ) गजवधूनां वैधव्यकारकः, गजानां निहन्तेत्यर्थः । 'गजवधु' इति 'इको हवोऽड्यो' इति हखः । लक्ष्यं प्रति एकमात्र एव बाणो विमोक्तव्य इति शौर्यस्वभावशाली मत्पुत्रोयमेकेनैव बाणेन पूर्व मत्तमातङ्गानिजघान । संप्रति स्त्रीप्रसक्तस्तथा जातो यथा बाणसमूहं वहन्नपि न तस्मै कर्मणे प्रभुरित्याशयः । ' गजनिहन्ता' इति वक्तव्ये गजवधूवैधव्यकर इत्युक्त्या 'ये गजपुङ्गवा अन्यगजोत्पादने समर्थाः येषां हनने च बह्वयः करिण्यो वैधव्यमेव धारयन्ति न पुनरन्योपसर्पणे वाञ्छा भवति, तादृशान् यूथपतीन् यूथस्य संमुख एव हतवान्' इति शौर्योत्कर्षो ध्वन्यते । काण्डसंधायीति स्थाने 'विनिपाती' इति कथनेन ' तादृशस्तस्याभ्यास आसीद्यथा संधानस्य का कथा हेलया शरं पातयन्नपि गजान् हतवान्' इति तदतिशयो व्यज्यते । विनिपातीति ताच्छील्यार्थकणिनिना एकमात्रकाण्डत्यागस्तस्य स्वभाव आसीदिति शौर्यातिशयः सूच्यते । 'पुत्रो मे' इति मे पदप्रयोगेण 'ईदृशीयं शूरो मत्पुत्रः' इति ममापि तत्कृतोभिमान आसीदिति ध्वन्यते । 'ईक्षितः ' इत्यनेन ‘वशीकारिण्या दृष्ट्या तथा दृष्टो यथा दर्शनादारभ्यैव तत्प्रसक्तिं न परित्यजति इति दृष्टेर्मोहकतातिशयो ध्वन्यते । वहतीत्यनेन बाणसमूहं भाररूपेण केवलं वहत्येव न तु तेन किञ्चित्कर्तुं समर्थ इत्यवहेला सूच्यते । समूहस्थाने करण्डपदेनापि 'संपूर्णा बाणधानीमेव वन्नपि निष्फल एव' इति पुत्रं प्रत्यसूया ध्वन्यते ।
समरं विजित्य गृहागतस्य शस्त्रनिर्भिन्नस्य मनखिनो भर्तुर्निजमानभङ्गस्य कथाश्रवगादपि मानवशान्मृत्युर्भवेदित्याशङ्कमाना ग्रामनायकमहिषी तन्निवारणाय पल्लीवासिलोकान्प्रत्याह
७ शतकम् ]
विञ्झारुहणालावं पल्ली मा कुणउ गामणी ससइ । पञ्चजिविओ जइ कह वि सुणइ ता जीविअं मुअह ॥ ३१ ॥ [ विन्ध्यारोहणालापं पल्ली मा करोतु ग्रामणीः श्वसिति । प्रत्युज्जीवितो यदि कथमपि शृणोति तजीवितं मुञ्चति ॥ ]
पल्ली विन्ध्यारोहं मा लपतु ग्रामणीः श्वसिति । उज्जीवितोथ कथमपि शृणोति यदि जीवितं तदा त्यजति ॥ ३१ ॥ पल्ली पल्लीनिवासिजनो दस्युभयाद्विन्ध्यारोहणस्य कथां न करोतु । यतोऽधुनापि
Jain Education International
३१९
For Private & Personal Use Only
www.jainelibrary.org