Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 406
________________ ७ शतकम् ] संस्कृतगाथासप्तशती । .३२१ भरणे । 'अनुकूले विधावमङ्गलान्यपि मङ्गलानि भवन्तीति निदर्शयन्कश्चिदाह' इति गङ्गाधरः । अधरे दंशचिह्नमवलोक्य परस्त्रीसङ्गशङ्कया पशुकल्पानां पामरीणामपि निरपराधेपि पत्यौ प्रणयवशादीर्ष्या भवति । ततस्तु महाकुलीनायाः प्रकामग्रहिलप्रणयाया मनस्विन्यास्तस्याः प्रत्यक्षप्रेक्षितव्यली के त्वयि तु किं वाच्यम् । अतः पदप्रणामेनैवैनां प्रसादय । न पुनः कालहरणं श्रेयसे इत्यनुनयपराङ्मुखं नायकं प्रति दूत्याह - महुमच्छिआइ दट्ठे दहूण मुहं पिअस्स सूणोट्ठम् | ईसाई पुलिन्दी रुक्खच्छाअं गआ अण्णम् ॥ ३४ ॥ [ मधुमक्षिकया दष्टं दृष्ट्वा मुखं प्रियस्योच्छूनोष्ठम् । ईर्ष्यालुः पुलिन्दी वृक्षच्छायां गतान्याम् ॥ ] दष्टं मधुमक्षिका मुखमुच्छ्रनोष्ठमैक्ष्य दयितस्य । अन्यां वृक्षच्छायां गता पुलिन्दी किलेर्ष्यालुः ॥ ३४ ॥ आ - ईक्ष्य, दृष्ट्वा । दयितस्य न तु पत्युः । यस्या हि प्रियतमेऽत्यन्तं प्रणयो भवति तस्या एव अन्याभिषङ्गशङ्कयापि प्रणयकोपो भवति । ततश्च त्वयि दृढानुरागामिमां किमित्युपेक्षसे । प्रणयवतीमिमां सबहुमानमनुनयस्वेति प्रियं प्रत्यभिव्यज्यते । या सह कृतकलहा त्वत्समागमप्रतीक्षया निर्जने सा तिष्ठतीति जारं प्रति दूत्या इयमुतिरिति कश्चित् । स्वयं दूतिका पथिकं सूचयन्ती सखीमाह घण्णा वसन्ति णीसङ्कमोहणे बहलपत्तलवइम्मि । वाअन्दोलणओणविअवेणुगहणे गिरिग्गामे ॥ ३५ ॥ [ धन्या वसन्ति निःशङ्कमोहने बहलपत्रलवृतौ । वातान्दोलनावनामितवेणुगहने गिरिग्रामे ॥ ] धन्या वसन्ति निःशङ्कमोहने बहलपत्रलावरणे । वातान्दोलन विनमितवेणुविगहने गिरिग्रामे ॥ ३५ ॥ : बहलैर्निबिडैः पत्रलैर्बहुलपत्रयुक्तैः (वृक्षैः ) आवरणं वेष्टनं यत्र । वातान्दोलनेन विनमितैर्वेणुभिर्गहने संबाधे । अत एव निःशङ्कं मोहनं सुरतं यत्र तथाभूते गिरिग्रामे ( पर्वतोपरि निविष्टे ग्रामे ) धन्या वसन्ति । यदि त्वमभिनन्दनीयभाग्योसि तर्हि वृक्षावरणवेष्टिते अपरिलक्षणीय सुचिरसुरत सौख्ये स्मिन् ग्रामे मया सह विहरेति पान्थं प्रत्यभिव्यज्यते । 'गिरिग्रामप्रशंसाच्छलेनासती जारं प्रति स्वच्छन्दाभिसारस्पृहामाह' इति गङ्गाधरः । दर्शितशोभाविप्रकर्षासु वर्षासु गिरिग्रामाणां रमणीयतातिशयं प्रतिपादयन्ती काचि तेषु रमणाय रमणायेजितं ददाति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446