Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 405
________________ ३२० काव्यमाला। ग्रामनायकः श्वसिति । 'यावच्छ्वासास्तावदाशा' इति कथनानुसारमस्मिन् जीवति लोकानां भयमेव कुत इति भावः । परं कथञ्चित्प्रत्युज्जीवितः प्रत्यागतप्राणो यदि विन्ध्यारोहणकथां शृणोति तदा खाश्रितजनपलायनश्रवणेन जनितमानभङ्गोसौ अवश्यं जीवितं त्यजति । 'पल्ली' पदेन 'समग्रोपि पल्लीवासी जनोऽस्य रक्षणीय' इति सूच्यते । श्वसितीत्यनेन 'यावदेकोपि श्वासस्तावत्पल्लीरक्षणमयमात्मनः कर्तव्यं मन्यते' इति कर्तव्यनिष्ठा व्यज्यते । जीवितं त्यजेदिति संभावनार्थकलिङः स्थाने लट्प्रयोगेण 'जीवितत्यागस्य संभावनैव नास्ति प्रत्युत मानभङ्गे सति जीवितत्यागो निश्चितं वर्तमान एवं' इति मनखितातिशयो ध्वन्यते । स्निग्धो जनो निजस्नेहिनो हितमनुसंधाय मरणदशायामपि भद्रमेवोपदिशतीति निदर्शयन् कश्चित्सहचरमाह अप्याहेइ मरन्तो पुत्तं पल्लीवई पअत्तेण । मह णामेण जह तुमं ण लजसे तह करेजासु ॥ ३२॥ [शिक्षयति म्रियमाणः पुत्रं पल्लीपतिः प्रयत्नेन । मम नाम्ना यथा त्वं न लजसे तथा करिष्यसि ॥] शिक्षयति नियमाणः पुत्रं पल्लीपतिः प्रयत्नेन । मम नाम्ना न यथा त्वं विलजसे सुत करिष्यसेङ्ग तथा ॥३२॥ एवंविधप्रतापशालिन एवंविधो निर्गुणः पुत्र इति पितुर्नामग्रहणस्य पुत्रपक्षे लजा.. हेतुत्वम् । अथवा अमुकस्य पुत्रोयमिति पितृनाम्ना निर्गुण एव व्यपदिश्यते पूज्यते चेति नाम्नो लज्जाहेतुत्वम् । मत्पुत्र इति प्रसिद्ध्यन् यथा न लज्जितो भवसि तथा कार्याणि करिष्यसीत्यर्थः। आत्मगुणैः प्रसिद्धेन त्वया निजवंशमर्यादोचितान्येव कार्याणि कार्याणीति तात्पर्यम् । अङ्ग इति संबोधने । 'अप्याहेई' इत्यस्य शिक्षयति संदिशतीति वार्थः। प्रियप्राणाः पतिव्रताः प्रणयपरिपाकेनैव प्रेतमपि प्रियतमं प्रत्युज्जीव्य पुनः प्राप्नुवन्ति तत्प्रणयप्रमोदं किं पुनस्तस्मिन्प्रोषिते इति विरह विह्वलां कांचिग़ढयन्ती काचिदाह अणुमरणपत्थिआए पञ्चागअजीविए पिअअमम्मि । वेहवमण्डणं कुलवहूअ सोहग्गअंजाअम् ॥ ३३ ॥ [अनुमरणप्रस्थितायाः प्रत्यागतजीविते प्रियतमे। वैधव्यमण्डनं कुलवध्वाः सौभाग्यकं जातम् ॥] अनुमरणनिर्गतायाः प्रत्यागतजीवितेथ तदयिते । वैधव्यमण्डनं कुलवध्वाः सौभाग्यकं जातम् ॥ ३३ ॥ अनुमरणार्थ निर्गतायाः प्रस्थितायाः सौभाग्यकं सौभाग्यरूपं जातम् , सौभाग्यमण्डनं जातमिति यावत् । करुणानन्तरे अनुभवार्थोयं संभोग इत्युदाहृतेयं गाथा स० कण्ठा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446