Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला 1
प्रत्यक्षद्रष्टुर्निजविश्वसनीयता प्रदर्शनार्थम् । 'पल्लीनिवासिन्या विलासिन्या दूती पल्लीभङ्गशङ्कयानागच्छन्तं तत्कान्तं तत्समीपगमनायोत्साहयितुमाह' इति गङ्गाधरावतरणम् । 'कथमनेन बालेन रक्षा कर्तव्येति परिजनश्चिन्तयति । बालोयमस्माभिर्ग्राह्य इति प्रतिपक्षश्चिन्तयतीत्यर्थः ' इति तट्टीका । भयं कोडे कुर्वतः 'आशङ्कते' पदस्य सोयमर्थो विचार्य एव ॥
शृण्वतीष्वन्यासु व्याधरमणीषु निजसौभाग्यख्यापनाय प्रियतमस्य पराक्रमं प्रत्यावे दयन्ती व्याववधूश्चित्रमृगचर्म पृच्छन्तं पथिकं प्रत्याह
अण्णेसु पहिअ पुच्छसु वाहअपुत्ते पुसिअचम्माई | अहं वाहजुआणो हरिणेसु धणुं ण णामेइ ॥ २९ ॥ [ अन्येषु पथिक पृच्छ व्याधकपुत्रेषु पृषतचर्माणि । अस्माकं व्याधयुवा हरिणेषु धनुर्न नामयति ॥ ]
३१८
अन्येषु पथिक पृच्छ व्याधकपुत्रेषु पृषतचर्माणि । अस्माकं व्याधयुवा हरिणेषु धनुर्न नामयति ॥ २९ ॥
दुर्बलानां हरिणकानां चर्मोत्पाटनद्वारा ये जीविकामर्जयन्ति ते व्याधा अपि वीरव्याधापेक्षया कुत्सिताः, अत एव व्याधकास्तत्पुत्रेषु । तत्पुत्रेष्वित्युक्त्या - पितृद्वारा कीर्तनीयत्वात्तेपि नोत्तमा इति अवहेला सूच्यते । पृषतः श्वेतबिन्दुयुक्तश्चित्रमृगः 'चीतल'. इति भाषया ख्यातः । हे वणिगित्यादिस्थाने - पथिकेत्यामन्त्रणेन केवलं चर्मवाणिज्यमेव न तवोद्देश्यम् अपि तु पथिलङ्घनमपि ते कर्तव्यमेव, अत एव अन्यव्याधकुटुम्ब - प्रश्नार्थं मार्गवर्तिस्थानान्तरगमनेपि न ते क्लेश इति ध्वन्यते । व्याधयुवेत्यनेन - सर्वे - ष्वपि व्याधेषु शूरताश्रयतया अयमेव एकमात्रो युवेति बहुमानो ध्वन्यते । 'न नामयती' त्युक्तया - बाणद्वारा हननेन जीविकोपार्जनस्य का कथा, निजधनुरपि न तदभिमुखी - करोतीति औदार्यातिशयो व्यज्यते । हरिणेष्विति जातिकीर्तनेन - ' त्वं तु पृषतानामेव कथां पृच्छसि परं स्वर्णमय एव किं न भवेदयं तु हरिणसामान्यमेव दयनीयं मन्यत इति मनखितातिशयो व्यज्यते । अन्येष्विति - ' एवं विधास्तुच्छाः केप्यन्य एव व्याधा भवेयुः, नायम्' इति गूढाभिमानसूचिका लोको किशैली । पृच्छेत्युक्त्या 'मृगचर्मक्रयणस्य तु का कथा तत्प्रश्नोपि नात्र वाञ्छितः, सोप्यन्यत्रैव करणीयः' इति ताटस्थ्यातिशयः सूच्यते । अस्माकमित्युक्त्या - 'समग्रव्याधजातेरभिमानस्थानमेकमात्रः सोयं युवा च अस्मत्संबन्धी, किं वा मदधीनः' इत्यात्मनः सौभाग्यं शृण्वतीरन्यव्याधरमणीः प्रति ध्वन्यते । 'व्याधकपुत्रेषु' इति ध्वनिदर्शकोप्ययं पाठो गङ्गाधरानुरोधात् । 'वाहकुडुम्बेसुं' इति पुस्तकान्तरप्रसिद्ध प्राकृतपाठानुसारी ' व्याधकुटुम्बेषु' इति तु बन्धानुगुणः ।
निजसुतस्य सततमासञ्जनकरी खुषामसूयन्ती व्याधमाता बन्धुजनमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446