Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
३१६
.. काव्यमाला।
मुहपुण्डरीअछाआइ संठिआ उअह राअहंसे व। छणपिट्ठकुट्टणुच्छलिअधूलिधवले थणे वहइ ॥ २४ ॥
मुखपुण्डरीकच्छायायां संस्थितौ पश्यत राजहंसाविव ।
क्षणपिष्टकुट्टनोच्छलितधूलिधवलौ स्तनौ वहति ॥] मुखनलिनच्छायायां हंसाविव संस्थितौ निरीक्षध्वम् ।
क्षणपिष्टकुट्टनोद्धतधूलिधवलितौ स्तनौ वहति ॥ २४ ॥ क्षणे उत्सवदिवसे पिष्टस्य गोधूमादिचूर्णस्य कुटनेनोच्छलितया धूल्या धवलौ स्तनौ, मुखकमलच्छायायां स्थितौ हंसाविव वहतीति निरीक्षध्वम् । दिवसान्तरे तु कर्मकरादिभिरेवंविधकार्याणि क्रियन्ते परमद्योत्सवकार्यबाहुल्यादिदं खयं कर्तव्यमभूदिति 'क्षण, पदेन सूच्यते । संस्थिताविति ‘सम्' उपसर्गेण-छायायां सम्यक् सुखपूर्वकं पृष्ठपरावतितकन्धरं पक्षपुटावच्छादितमुखतया विश्रब्धमवस्थितिः सूच्यते । अत एव वर्तुलयोः खनयोः साम्यम् । हंसाविवेत्युपमया-एवंविधयोहँसयोर्यथा ग्रहणे सौकर्य तथानयोरपीत्यात्माभिलाषो व्यज्यते।।
'अनयोरान्तरिकोनुरागो मया विदितः' इति स्ववैदग्ध्यं प्रथयन्नागरिकः कयोश्चित्परस्परावलोकनं वर्णयति
तह तेणवि सा दिट्ठा ती वि तह तस्स पेसिआ दिट्ठी। जह दोण्ह वि समअं चिअ णिव्युत्तरआई जाआई ॥ २५ ॥
[तथा तेनापि सा दृष्टा तयापि तथा तस्मै प्रेषिता दृष्टिः । ___ यथा द्वावपि सममेव निवृत्तरतौ जातौ ॥1 तेन तथा सा दृष्टा तयापि दृक् प्रेषिता तथा तस्मै ।
द्वावपि सममेव यथा निवृत्तरतौ नु संजातौ ॥ २५॥ सममेव एककालमेव । निर्वृत्तरतौ पूरितरतसुखौ जाती । इवार्थमिव सूचयन् 'नुः' । शृण्वति जारे स्वस्याभिसाररसिकतां सूचयन्ती काचित्कुलटा ग्रीष्मर्तुमेवमभिनन्दति
वाउलिआपरिसोसण कुडङ्गपत्तलणसुलहसंकेअ । सोहग्गकणअकसवट्ट गिम्ह मा कह वि झिन्जिहिसि ॥२६॥ [स्वल्पखातिकापरिशोषण निकुञ्जपत्रकरण सुलभसंकेत ।
सौभाग्यकनककषपट्ट ग्रीष्म मा कथमपि क्षीणो भविष्यसि ॥] लघुवापिकाविशोषण निकुञ्जदलकरण सुलभसंकेत ।
सौभाग्यकनकनिकष क्षेष्यसि हे ग्रीष्म कथमपि मा ॥२६॥ लधुवापिकानां विशोषक ! निकुञ्जेषु पत्राणामुत्पादक! अत एव सुलभसंकेत ! अत एव कारणात्सौभाग्यरूपस्य कनकस्य परीक्षायै निकषपदृस्थानीय हे ग्रीष्म ! कथमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446