SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३१६ .. काव्यमाला। मुहपुण्डरीअछाआइ संठिआ उअह राअहंसे व। छणपिट्ठकुट्टणुच्छलिअधूलिधवले थणे वहइ ॥ २४ ॥ मुखपुण्डरीकच्छायायां संस्थितौ पश्यत राजहंसाविव । क्षणपिष्टकुट्टनोच्छलितधूलिधवलौ स्तनौ वहति ॥] मुखनलिनच्छायायां हंसाविव संस्थितौ निरीक्षध्वम् । क्षणपिष्टकुट्टनोद्धतधूलिधवलितौ स्तनौ वहति ॥ २४ ॥ क्षणे उत्सवदिवसे पिष्टस्य गोधूमादिचूर्णस्य कुटनेनोच्छलितया धूल्या धवलौ स्तनौ, मुखकमलच्छायायां स्थितौ हंसाविव वहतीति निरीक्षध्वम् । दिवसान्तरे तु कर्मकरादिभिरेवंविधकार्याणि क्रियन्ते परमद्योत्सवकार्यबाहुल्यादिदं खयं कर्तव्यमभूदिति 'क्षण, पदेन सूच्यते । संस्थिताविति ‘सम्' उपसर्गेण-छायायां सम्यक् सुखपूर्वकं पृष्ठपरावतितकन्धरं पक्षपुटावच्छादितमुखतया विश्रब्धमवस्थितिः सूच्यते । अत एव वर्तुलयोः खनयोः साम्यम् । हंसाविवेत्युपमया-एवंविधयोहँसयोर्यथा ग्रहणे सौकर्य तथानयोरपीत्यात्माभिलाषो व्यज्यते।। 'अनयोरान्तरिकोनुरागो मया विदितः' इति स्ववैदग्ध्यं प्रथयन्नागरिकः कयोश्चित्परस्परावलोकनं वर्णयति तह तेणवि सा दिट्ठा ती वि तह तस्स पेसिआ दिट्ठी। जह दोण्ह वि समअं चिअ णिव्युत्तरआई जाआई ॥ २५ ॥ [तथा तेनापि सा दृष्टा तयापि तथा तस्मै प्रेषिता दृष्टिः । ___ यथा द्वावपि सममेव निवृत्तरतौ जातौ ॥1 तेन तथा सा दृष्टा तयापि दृक् प्रेषिता तथा तस्मै । द्वावपि सममेव यथा निवृत्तरतौ नु संजातौ ॥ २५॥ सममेव एककालमेव । निर्वृत्तरतौ पूरितरतसुखौ जाती । इवार्थमिव सूचयन् 'नुः' । शृण्वति जारे स्वस्याभिसाररसिकतां सूचयन्ती काचित्कुलटा ग्रीष्मर्तुमेवमभिनन्दति वाउलिआपरिसोसण कुडङ्गपत्तलणसुलहसंकेअ । सोहग्गकणअकसवट्ट गिम्ह मा कह वि झिन्जिहिसि ॥२६॥ [स्वल्पखातिकापरिशोषण निकुञ्जपत्रकरण सुलभसंकेत । सौभाग्यकनककषपट्ट ग्रीष्म मा कथमपि क्षीणो भविष्यसि ॥] लघुवापिकाविशोषण निकुञ्जदलकरण सुलभसंकेत । सौभाग्यकनकनिकष क्षेष्यसि हे ग्रीष्म कथमपि मा ॥२६॥ लधुवापिकानां विशोषक ! निकुञ्जेषु पत्राणामुत्पादक! अत एव सुलभसंकेत ! अत एव कारणात्सौभाग्यरूपस्य कनकस्य परीक्षायै निकषपदृस्थानीय हे ग्रीष्म ! कथमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy