________________
७ शतकम् ]
संस्कृतगाथासप्तशती ।
३१७
मा क्षीणो भविष्यसि । सुवर्णस्य परीक्षा यथा निकषपाषाणे भवति तथा लोकानां सौभाग्यस्य परीक्षा ग्रीष्मे भवति । संकेतसौकर्यसाधकेपि ग्रीष्मे यस्या न सुरतसुखसमुपलब्धिस्तर्हि न तस्याः सौभाग्यमिति भावः । एवं च सुरतसुखलोल्यमात्मनो ध्वन्यते । 'वाउलिआ' शब्दः स्वल्पखातिकायां देशी । 'स्वल्पखातिकानां परिशोषणेन निकुञ्जाना पत्रसंपत्त्या च सुलभः संकेतो यत्र स तथेति ग्रीष्मसंबोधनमिति' पूर्वार्धमेकं पदं भन्वानो गङ्गाधरभट्टः ।
कायक्लेशपरीक्षणकपटेन कुटिलै; क्लेश्यमानं गुणिनं निजगुणज्ञतया प्रोत्साहयन्ती काचिदन्यापदेशेनाह
दुस्सिक्खिअरअणपरिक्खएहिं घिट्टोसि पत्थरे तावा । जा तिलमत्तं वसि मरगअ का तुज्झ मुल्लकहा ॥ २७॥ [दुःशिक्षितरत्नपरीक्षकैघृष्टोऽसि प्रस्तरे तावत् ।
यावत्तिलमात्रं वर्तसे मरकत का तव मूल्यकथा ॥] मरकत रत्नपरीक्षकपाशैर्वृष्टोसि प्रस्तरे तावत् ।
का तव मूल्यकथा किल तिलमात्रं वर्तसे यावत् ॥ २७ ॥ रत्नपरीक्षकपाशैः अतत्त्व दुर्विदग्धैश्च रत्नपरीक्षकंमन्यैः । याप्ये पाशप् । यावत्त्वं तिलमात्रमप्यसि तावत्तवास्मिन्ग्रामे को वा मूल्यं निर्धारयितुं समर्थ इति भावः । तथा च एते न ते गुणान् जानते, अहं तु तव गुणान्परिचीय सुभृशमनुरक्तास्मि' इति गुणिनं प्रति द्योत्यते । 'दुर्जनसंसर्गादुद्विग्नं गुणशालिनं विदग्धा काप्यन्यापदेशेन प्रवृत्तिपाटवार्थमाह' इति गङ्गाधरः ।
प्रामनायकसूनोः शौर्य प्रदर्य पराक्रमैकपक्षपातिनी काञ्चिन्मानिनीमनुकूलयन्ती दूती आह
जह चिन्तेइ परिअणो आसङ्कइ जह अ तस्स पडिवक्खो। बालेण वि गामणिणन्दणेण तह रक्खिआ पल्ली ॥२८॥ [यथा चिन्तयति परिजन आशङ्कते यथा च तस्य प्रतिपक्षः।
बालेनापि ग्रामणीनन्दनेन तथा रक्षिता पल्ली ॥] चिन्तति यथा परिजनस्तत्प्रतिपक्षो विशङ्कते च यथा।
ग्रामणिसुतेन गुप्ता बालेनापि हि तथा पल्ली ॥ २८ ॥ प्रबलेष्वेतावत्सु प्रतिपक्षेषु कथमनेन बालेन रक्षा कर्तव्येति स्नेहवशः परिजनश्चिन्तयति । इदित्करणाद्वैकल्पिको णिच् । 'नायमस्मान्कदाचिदाक्रम्य परिभवेत्' इति प्रतिपक्षो विशेषेण शङ्कते । गुप्ता रक्षिता । बाल्येप्यस्यैतादृशं शौर्यमासीदिदानी पूर्णयौवने तु किं वक्तव्यमिति नायिका प्रत्यभिव्यज्यते । भूतकालिकघटनायामपि 'चिन्तति शङ्कते' इति वर्तमानप्रयोगस्तु 'सा घटना मन्नयनयोरिदानीमपि वर्तमानेव' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org