Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 404
________________ संस्कृतगाथासप्तशती । अवहुवे पुतो मे एक्ककण्डविनिवाई | तह सोह्राइ पुलइओ जह कण्डकरण्डअं वहह ॥ ३० ॥ [ गजवधूवैधव्यकरः पुत्रो मे एककाण्डविनिपाती । तथा खुषया प्रलोकितो यथा काण्डसमूहं वहति ॥ ] गजव धुवैधव्यकरः पुत्रो मे होककाण्डविनिपाती । खुषया तथेक्षितः किल काण्डकरण्डं यथा वहति ॥ ३० ॥ एकं काण्डं बाणं विनिपातयति क्षिपति तच्छील:, ( ततोऽपि ) गजवधूनां वैधव्यकारकः, गजानां निहन्तेत्यर्थः । 'गजवधु' इति 'इको हवोऽड्यो' इति हखः । लक्ष्यं प्रति एकमात्र एव बाणो विमोक्तव्य इति शौर्यस्वभावशाली मत्पुत्रोयमेकेनैव बाणेन पूर्व मत्तमातङ्गानिजघान । संप्रति स्त्रीप्रसक्तस्तथा जातो यथा बाणसमूहं वहन्नपि न तस्मै कर्मणे प्रभुरित्याशयः । ' गजनिहन्ता' इति वक्तव्ये गजवधूवैधव्यकर इत्युक्त्या 'ये गजपुङ्गवा अन्यगजोत्पादने समर्थाः येषां हनने च बह्वयः करिण्यो वैधव्यमेव धारयन्ति न पुनरन्योपसर्पणे वाञ्छा भवति, तादृशान् यूथपतीन् यूथस्य संमुख एव हतवान्' इति शौर्योत्कर्षो ध्वन्यते । काण्डसंधायीति स्थाने 'विनिपाती' इति कथनेन ' तादृशस्तस्याभ्यास आसीद्यथा संधानस्य का कथा हेलया शरं पातयन्नपि गजान् हतवान्' इति तदतिशयो व्यज्यते । विनिपातीति ताच्छील्यार्थकणिनिना एकमात्रकाण्डत्यागस्तस्य स्वभाव आसीदिति शौर्यातिशयः सूच्यते । 'पुत्रो मे' इति मे पदप्रयोगेण 'ईदृशीयं शूरो मत्पुत्रः' इति ममापि तत्कृतोभिमान आसीदिति ध्वन्यते । 'ईक्षितः ' इत्यनेन ‘वशीकारिण्या दृष्ट्या तथा दृष्टो यथा दर्शनादारभ्यैव तत्प्रसक्तिं न परित्यजति इति दृष्टेर्मोहकतातिशयो ध्वन्यते । वहतीत्यनेन बाणसमूहं भाररूपेण केवलं वहत्येव न तु तेन किञ्चित्कर्तुं समर्थ इत्यवहेला सूच्यते । समूहस्थाने करण्डपदेनापि 'संपूर्णा बाणधानीमेव वन्नपि निष्फल एव' इति पुत्रं प्रत्यसूया ध्वन्यते । समरं विजित्य गृहागतस्य शस्त्रनिर्भिन्नस्य मनखिनो भर्तुर्निजमानभङ्गस्य कथाश्रवगादपि मानवशान्मृत्युर्भवेदित्याशङ्कमाना ग्रामनायकमहिषी तन्निवारणाय पल्लीवासिलोकान्प्रत्याह ७ शतकम् ] विञ्झारुहणालावं पल्ली मा कुणउ गामणी ससइ । पञ्चजिविओ जइ कह वि सुणइ ता जीविअं मुअह ॥ ३१ ॥ [ विन्ध्यारोहणालापं पल्ली मा करोतु ग्रामणीः श्वसिति । प्रत्युज्जीवितो यदि कथमपि शृणोति तजीवितं मुञ्चति ॥ ] पल्ली विन्ध्यारोहं मा लपतु ग्रामणीः श्वसिति । उज्जीवितोथ कथमपि शृणोति यदि जीवितं तदा त्यजति ॥ ३१ ॥ पल्ली पल्लीनिवासिजनो दस्युभयाद्विन्ध्यारोहणस्य कथां न करोतु । यतोऽधुनापि Jain Education International ३१९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446