Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 407
________________ ३२२ काव्यमाला | पप्पुल्लघणकलम्बा गिद्धोअसिलाअला मुअमोरा । पसरन्तोज्झरमुहला ओसाहन्ते गिरिग्गामा ॥ ३६ ॥ [ प्रोत्फुल्लघनकदम्बा निधतशिलातला मुदितमयूराः । प्रसरन्निर्झरमुखरा उत्साहयन्ति गिरिग्रामाः ॥ ] प्रोत्फुल्लघन कदम्बा निर्धौत शिलाः प्रमत्तके कि कुलाः । उत्साहयन्ति निर्यनिर्झरमुखरा गिरिग्रामाः ॥ ३६ ॥ प्रथमविशेषणेन संभोगस्योद्दीपनविभावः, द्वितीयेन सुरतसामयिकं शयनस्थलम्, तृतीयेन अन्यमनस्कतासंपादनेन सुचिरसुरतसौकर्यं संभोगानन्तरं विनोदसंभारो वा, चतुर्थेन स्वनितशिञ्जितमणितादिनिह्नवसौकर्यं च सूच्यते । ततश्च कामिजनमनोहरायामस्यां प्रावृषि गिरिग्रामेषु सर्वविधं रमणसौकर्यमिति स्वैरमभिसारस्तेष्वस्तु, इति प्रियतमं प्रत्यभिव्यज्यते । नीरसापि सा कामकलाकोविदस्य तस्य सुरतोपचारचातुर्यचर्यया संप्रति समधिकं सरसान्तरा सहृदयहृदयावर्जिका च जातेति नायकस्य दाक्षिण्यं ख्यापयन्ती दूती काचित्कामिनीजनमनोरञ्जनार्थंमन्यापदेशेनाह— तह परिमलिआ गोवेण तेण हत्थं पि जा ण ओल्लेइ । स चिअ घेणू एहिं पेच्छसु कुडदोहिणी जाओ ॥ ३७ ॥ [ तथा परिमलिता गोपेन तेन हस्तमपि या नार्द्रयति । सैव धेनुरिदानीं प्रेक्षध्वं कुटदोहिनी जाता ॥ ] नार्द्रयति हस्तमपि या गोपेन तथा तु तेन परिमलिता । सैव हि धेनुरिदानीं पश्यत कुटदोहिनी जाता ॥ ३७ ॥ या धेनुर्दोहनसमये खदुग्धेन दोग्धुर्हस्तमपि नार्द्रयवि धारायास्तु का कथा, निपुणेन तेन गोपेन तथा परिमलिता स्तनपृष्ठादिपरामर्शेन तेन प्रकारेण परामृष्टा यथा सैव धेनुरिदानीं दुग्धघटपूरिका जातेति पश्यत । घटपरिमितं दुग्धं ददातीति भावः । कुटो घटः । व्यञ्जनया च कामकलाचतुरेण नायकेन करिहस्तादिविन्यासेन तेन प्रकारेण परामृष्टा यथा पूर्वं किञ्चिदप्यद्रवन्ती सा सम्प्रति बहुतरं स्मरजलं क्षरतीत्यर्थः । रतिदाक्षिण्यदीक्षितेन तेन सह बद्धप्रणया भवत्योपि तच्चातुर्यपरिचयं प्राप्स्यथेति शृण्वतीः प्रत्यभिव्यज्यते । सर्वातिशायि कस्याश्चित्सौभाग्यं सूचयन्ती सखी सपरिहासमन्यापदेशेनाहधवल जिअ तुह कए धवलस्स कए जिअन्ति गिट्ठीओ । जिअ तम्बे अम्ह वि जीविएण गोट्टं तुमाअत्तम् ॥ ३८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446