Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 399
________________ काव्यमाला। दोअङ्गुलअकवालअपिणद्धसविसेसणीलकञ्चइआ। दावेइ थणत्थलवण्णि व तरुणी जुअजणाणम् ॥ २० ॥ [व्यङ्गुलककपाटकपिनद्धसविशेषनीलक किका। दर्शयति स्तनस्थलवर्णिकामिव तरुणी युवजनेभ्यः ॥] घडलललितकपाटकपिनद्धसविशेषनीलकञ्चलिका। स्तनदेशवर्णिकामिव तरुणी परिदर्शयति युवजनेम्यः॥ २०॥ घ्यङ्गुलपरिमितं ललितं कपाटकं यस्यां तथाविधा पिनद्धा नीला कचुलिका यया सा। कपाटवत्पार्श्वद्वयदर्शकं यत्कञ्चलिकाबन्धनस्य सन्धिमध्यस्थले रिक्त स्थलं भवति तत्कपाटकमित्युच्यते । तथा च तत्र स्तनैकदेशदर्शनात्स्तनयोर्वर्णिकामिव दर्शयतीत्युत्प्रेक्ष्यते । कस्यचिद्वस्तुनः परीक्षार्थं यद्वस्त्वेकदेशप्रदर्शनं तद्वर्णिकेत्युच्यते । 'बानगी' इति भाषा । अनया चोत्प्रेक्षया 'वर्णिकां प्रदर्श्य वणिग् यथा ग्राहकाननुकूलयति, तथा त्वमपि युवकानुत्कण्ठयसि, ततश्च त्वं प्राहकान्वेषिणी भ्रमसीति' तां प्रति परिहासो ध्वन्यते । 'मामेवानुगृहाण' इत्यात्माभिलाषश्चरमं व्यङ्ग्यम् । 'कामुकजनप्रलोभनाय दूती नायिकायाः स्तनौ वर्णयतीति' गङ्गाधरावतरणम् । 'कपाटकेन पिनद्धो नीलकञ्चको यस्याः सा' इत्यादि तट्टीका। कस्याश्चित्प्रोषितपतिकाया दशां तत्कान्तसमीपगामी पान्थो वर्णयति रक्खेइ पुत्तों मत्थएण ओच्छोअ पडिच्छन्ती । अंसुहिँ पहिअघरिणी ओल्लिजन्तं ण लक्खेइ ॥ २१ ॥ [रक्षति पुत्रकं मस्तकेन पटलप्रान्तोदकं प्रतीच्छन्ती। __ अश्रुभिः पथिकगृहिणी आर्दीभवन्तं न लक्षयति ॥] रक्षति पुत्रं शिरसा पटलप्रान्तोदकं प्रतीच्छन्ती । आर्दीभवन्तमश्रुभिरथ पथिकवधून लक्षयति ॥ २१ ॥ 'ओच्छोअअम्' छदिःप्रान्तजलवाचको देशी । छदिः प्रान्तप्रचुतं वर्षाजलं निजशिरसा प्रतीच्छन्ती सहमाना पथिकवधूः पुत्रं रक्षति । प्रियस्मरणोत्कण्ठाजनितैरश्रुभिराीभवन्तं तु तं न लक्षयति । स्वयं वर्षाजलसहनेन निजशरीरोपर्ययत्नान्नायकविरहवेदनातिशयो व्यज्यते । अश्रुभिराीभवन्तं न लक्षयतीत्यनेन-अङ्कारोपितपुत्रा प्रावृडागमनोद्वेलितचित्ततया निरन्तरं प्रियतममेव ध्यायन्ती सर्वमन्यद्विस्मरतीति तस्या एकतानतातिशयो व्यज्यते । 'त्वदनुध्यानपरामेनां त्वरितमुपगच्छ' इति तद्दयितं प्रति चरमं व्यङ्ग्यम् । 'प्रतीकारोपि क्वचिदपकाराय भवतीति निदर्शयन्कश्चित्सखायमाह' इति गङ्गाधरः। . संकेतितस्य सरस्तीरस्य पथिकाक्रान्ततया संकेतान्तरमेव संप्रति संप्रधारणीयमिति जारं श्रावयन्ती कापि शरद्वर्णनव्याजेनाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446