________________
काव्यमाला।
दोअङ्गुलअकवालअपिणद्धसविसेसणीलकञ्चइआ। दावेइ थणत्थलवण्णि व तरुणी जुअजणाणम् ॥ २० ॥ [व्यङ्गुलककपाटकपिनद्धसविशेषनीलक किका।
दर्शयति स्तनस्थलवर्णिकामिव तरुणी युवजनेभ्यः ॥] घडलललितकपाटकपिनद्धसविशेषनीलकञ्चलिका।
स्तनदेशवर्णिकामिव तरुणी परिदर्शयति युवजनेम्यः॥ २०॥ घ्यङ्गुलपरिमितं ललितं कपाटकं यस्यां तथाविधा पिनद्धा नीला कचुलिका यया सा। कपाटवत्पार्श्वद्वयदर्शकं यत्कञ्चलिकाबन्धनस्य सन्धिमध्यस्थले रिक्त स्थलं भवति तत्कपाटकमित्युच्यते । तथा च तत्र स्तनैकदेशदर्शनात्स्तनयोर्वर्णिकामिव दर्शयतीत्युत्प्रेक्ष्यते । कस्यचिद्वस्तुनः परीक्षार्थं यद्वस्त्वेकदेशप्रदर्शनं तद्वर्णिकेत्युच्यते । 'बानगी' इति भाषा । अनया चोत्प्रेक्षया 'वर्णिकां प्रदर्श्य वणिग् यथा ग्राहकाननुकूलयति, तथा त्वमपि युवकानुत्कण्ठयसि, ततश्च त्वं प्राहकान्वेषिणी भ्रमसीति' तां प्रति परिहासो ध्वन्यते । 'मामेवानुगृहाण' इत्यात्माभिलाषश्चरमं व्यङ्ग्यम् । 'कामुकजनप्रलोभनाय दूती नायिकायाः स्तनौ वर्णयतीति' गङ्गाधरावतरणम् । 'कपाटकेन पिनद्धो नीलकञ्चको यस्याः सा' इत्यादि तट्टीका। कस्याश्चित्प्रोषितपतिकाया दशां तत्कान्तसमीपगामी पान्थो वर्णयति
रक्खेइ पुत्तों मत्थएण ओच्छोअ पडिच्छन्ती । अंसुहिँ पहिअघरिणी ओल्लिजन्तं ण लक्खेइ ॥ २१ ॥
[रक्षति पुत्रकं मस्तकेन पटलप्रान्तोदकं प्रतीच्छन्ती। __ अश्रुभिः पथिकगृहिणी आर्दीभवन्तं न लक्षयति ॥] रक्षति पुत्रं शिरसा पटलप्रान्तोदकं प्रतीच्छन्ती ।
आर्दीभवन्तमश्रुभिरथ पथिकवधून लक्षयति ॥ २१ ॥ 'ओच्छोअअम्' छदिःप्रान्तजलवाचको देशी । छदिः प्रान्तप्रचुतं वर्षाजलं निजशिरसा प्रतीच्छन्ती सहमाना पथिकवधूः पुत्रं रक्षति । प्रियस्मरणोत्कण्ठाजनितैरश्रुभिराीभवन्तं तु तं न लक्षयति । स्वयं वर्षाजलसहनेन निजशरीरोपर्ययत्नान्नायकविरहवेदनातिशयो व्यज्यते । अश्रुभिराीभवन्तं न लक्षयतीत्यनेन-अङ्कारोपितपुत्रा प्रावृडागमनोद्वेलितचित्ततया निरन्तरं प्रियतममेव ध्यायन्ती सर्वमन्यद्विस्मरतीति तस्या एकतानतातिशयो व्यज्यते । 'त्वदनुध्यानपरामेनां त्वरितमुपगच्छ' इति तद्दयितं प्रति चरमं व्यङ्ग्यम् । 'प्रतीकारोपि क्वचिदपकाराय भवतीति निदर्शयन्कश्चित्सखायमाह' इति गङ्गाधरः। . संकेतितस्य सरस्तीरस्य पथिकाक्रान्ततया संकेतान्तरमेव संप्रति संप्रधारणीयमिति जारं श्रावयन्ती कापि शरद्वर्णनव्याजेनाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org