________________
७ शतकम् ] संस्कृतगाथासप्तशती।
[एकाकी मृगो दृष्ट्या मृग्या तथा प्रलोकितः सतृष्णया। ... प्रियजायस्य यथा धनुः पतितं व्याधस्य हस्तात् ॥] एकाकिमृगो मृग्या तथा हि दृष्टः सतृष्णया दृष्टया। प्रियजानेर्विनिपतितं व्याधस्य धनुर्यथा हस्तात् ॥१८॥ एकाकी स्वविरहितः । प्रियजानेः प्रिया जाया यस्य तादृशस्य व्याधस्य हस्तात् । अयं भावः-मृगमिथुनं जिघांसतो व्याधस्य बाणलक्ष्यीभूतया मृग्या खमरणभयमप्यविगणय्य मृगस्तथा प्रेमपूर्णया सतृष्णया दृष्ट्या विलोकितो यथा स्वप्रणयिनी स्मरतो व्याधस्य हस्ताद्धनुः स्वयमेव दयावशानिपतितम् । मरणसमयेपि स्वचिन्तामकृत्वा प्रियतमैकचित्ताः स्त्रियो भवन्त्यहो स्त्रीजातेदृढप्रणयतेति मृगीविलोकनेन वजायास्मरणात् व्याधस्य स्नेहदयोदयो जात इति भावः । अतिपामरो हिंस्रोपि व्याधः स्त्रीणां प्रणयपरिचयं प्राप्य प्रेयसी बहु मन्यते, न पुनर्नागरंमन्योपि त्वं तथेति नायकं प्रत्युपालम्भो व्यज्यते । 'मन्दस्नेहं निष्करुणं च नायकमुपालन्धुमन्यापदेशेन काचिदाह' इति गङ्गाधरः । मृग्याश्चक्षुर्निभालनेनात्मीयप्रियाविलोचनमनुस्मरतो व्याधस्य हस्तात्करुणया धनुः पतितमित्यर्थः।' इति तट्टीका ।
स्वखामिन्याः सौन्दर्यातिशयं सूचयन्ती दूती चलवृत्तं नायकमन्यापदेशेनोपालभमाना साकूतमाह
णलिणीसु भमसि परिमलसि सत्तलं मालई पि णो मुअसि । तरलत्तणं तुह अहो महुअर जइ पाडला हरइ ॥ १९॥ [नलिनीषु भ्रमसि परिमृद्गासि सप्तला मालतीमपि नो मुञ्चसि ।
तरलत्वं तवाहो मधुकर यदि पाटला हरति ॥] भ्रमसि नलिनीषु मृद्गासि सप्तलां मालतीं न मुञ्चसि यतू।
तरलत्वं तव मधुकर हंहो यदि पाटला हरति ॥ १९ ॥ 'सप्तला नवमालिका' इत्यमरः । असति लामे कासांचिन्मण्डले भ्रमस्येव, सत्यवसरे कांचिन्मय सि, कांचिच्च वचनादिनैव संबध्नासि, एतत्तव चाश्चल्यं यदि सा सत्यं पाटलवर्णा ( अतिशयितसौन्दर्या) तीवश्यं हरेदिति भावः । नानानायिकासु भ्रमणशीलस्त्वं नैकत्र तृप्यसि, अहो ते चलवृत्तत्वमिति 'हंहो' पदसहकारेण ध्वन्यते । परं सर्वातिशायिनी मत्खामिनी त्वां वशीकरिष्यतीति नायिकागुणातिशयः सूच्यते । भ्रमसि मृगासीति लट्प्रत्ययेन-पूर्वानुवृत्तां चयाँ सांप्रतमपि न त्यजसि, प्रत्यक्षमिदानीमप्यति सेति व्यज्यते।
कञ्चलिकाञ्चलात्किञ्चिदवलोक्यमानं कस्याश्चित्कुचयुगलमालोक्य साभिलाषः कश्चित् शृण्वन्त्यां तस्यां सहचरं प्रति सपरिहासमाह
सं. गा. २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org