________________
काव्यमाला।
वावारविसंवा सअलावअवाण कुणइ हअलज्जा । सवणाण उणो गुरुसंणिहे वि ण णिरुञ्झइ णिओअम् ॥१६॥ [व्यापारविसंवादं सकलावयवानां करोति हतलजा ।
श्रवणयोः पुनर्गुरुसंनिधावपि न निरुणद्धि नियोगम् ॥] व्यापारविसंवादं सकलाङ्गानां करोति हतलज्जा।
गुरुपुरतोपि श्रवसोः पुनर्नियोगं न निरुणद्धि ॥१६॥ हतेयं लज्जा नेत्रादिसकलावयवानां व्यापारविघातं करोति । किन्तु गुरुजनानां संनिधावपि श्रवसोः कर्णयोर्नियोगं व्यापारं न निरुणद्धि । गुरुजनानां लज्जावशाद्भवन्तं विलोकयितुमपारयन्त्यपि त्वत्कथाश्रवणे साभिलाषा तिष्ठामीत्याशयः। त्वदनुरक्तायाः पश्य मे हार्दिकं प्रणयम्' इति नायकं प्रति प्रोत्साहनमभिव्यज्यते । 'खदासक्ततया नेत्रादिव्यापारः सर्व एव विसंवादं प्राप्तः । केवलं श्वशुरादिसंनिधावपि त्वत्कथाश्रवणे श्रवणौ व्यापारयतीति नायकं प्रति दूतीवचनमिदमिति कश्चित् ।
दयितसमागमनिमित्तमतितमामाश्वासिता विरहवेदनाव्यथिता प्रोषितभर्तृका काचिसखीः प्रत्याह
किं भणह मं सहीओ मा मर दीसिहइ सो जिअन्तीए । कजालाओ एसो सिणेहमग्गो उण ण होइ ॥ १७ ॥ [किं भणथ मां सख्यो मा म्रियस्व द्रक्ष्यते स जीवन्त्या ।
कार्यालाप एष स्नेहमार्गः पुनर्न भवति ॥] किं भणथ मां नु सख्यो म्रियस्व मा द्रक्ष्यते स जीवन्त्या।
कार्यालापः सोयं भवति पुनः स्नेहमागान ॥१७॥ भवतीनामाश्वासनया दयितविरहेषि यदिदं दुःखदवदग्धं जीवनमतिनीयते सोय केवलं कार्यपर्यालोचनस्य पन्थाः । अहिलः स्नेहस्तु कार्य न पर्यालोचयतीति भावः । तथा च-स्नेहमार्गविमुखामपि कार्यदृष्ट्या जीवितं धारयन्तीं खार्थिनीं धिङ् मामित्यात्मावधी. रणया दयितालम्बनो रतिप्रकर्षः प्रद्योत्यते । जीवन्त्या एव द्रक्ष्यते अनेन-'मरणपर्यन्तमपि दयितस्यैवैकान्तभावनया मरणोत्तरं लोकान्तरे जन्मान्तरे वा तु सोऽवश्यं त्वया द्रष्टुमिष्ट एव परं 'मोत्ताम्य, आगतप्रायते प्रेयान् , जीवन्ती एव तं द्रक्ष्यसि' इति जन्मजन्मान्तरानुवर्ती दृढः स्नेहोभिव्यज्यते । 'द्रक्ष्यते' इत्यनेन विरहोत्तरं गृहागमने संगमादि न वाञ्छित्वा दर्शनमात्रलालसया प्रियप्रेमातिशयः प्रकाश्यते।। ___ दृढप्रणयामपि प्रेयसीमबहुमन्यमानं नायकमुपालभमाना नायिकासखी साकूतम. न्यापदेशेनाह
एकल्लमओ दिट्ठीअ मइअ तह पुलइओ सअह्नाए । पिअजाअस्स जह धणुं पडि वाहस्स हत्थाओ ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org