________________
७ शतकम् ] संस्कृतगाथासप्तशती।
३११ केवलं पीडयतीति नायकवृत्तान्तो व्यज्यते । विकासयितुं न जानातीत्युक्त्या-'रति विदग्धाः नवोढां बालामपि वैदग्ध्योपायैरपरिखेदरतियोग्यां विदधते' इति नायकवैदग्ध्यं सूच्यते । 'उद्वेल्लितुं विकासयितुम्' इति गङ्गाधरः । चलनार्थकस्याणिजन्तस्य केवल 'वेल' धातोरयमर्थो दुरुपपाद एव । विपरीतरताभिलाषुकः कश्चित्प्रियतमामुत्साहयन्नाह
दरवेविरोरुजुअलासु मउलिअच्छीसु लुलिअचिहुरासु । पुरिसाइरीसु कामो पिआसु सजाउहो वसइ ॥१४॥ [ईषद्वेपनशीलोल्युगलासु मुकुलिताक्षीषु लुलितचिकुरासु ।
पुरुषायितशीलासु कामः प्रियासु सज्जायुधो वसति ॥] दरवेपनोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु ।
पुरुषायितासु कामः प्रियासु सजायुधो वसति ॥१४॥ ऊरुयुग एव सकलभरसमर्पणात्-दरवेपनम् ईषत्कम्पनशीलम् ऊरुयुगं यासां तासु । वेपनमित्यत्र नन्द्यादित्वायुः । सज्जायुधपदेन-मोहन-वशीकरणादिकामशराणां यत्फलं तदनुपदमेव भवतीति सूच्यते । तिष्ठति-विहरतीत्याद्यनुपादाय 'वसति' पदेनगृहबुद्ध्या निर्विशङ्कमव्यभिचरितं चावस्थितिय॑ज्यते । 'प्रिया' इत्युक्त्या ‘एवं विधरतैः प्रियतमस्य हृदि सुतरां प्रीतिर्भवति, तथा च त्वं यदि मत्प्रीतिं कामयसे तर्हि स्वीकुरु मत्प्रार्थनामित्यात्माभिलाषो ध्वन्यते । पुरुषायितस्योदाहरणे परिगृहीतेयं गाथा स० कण्ठाभरणे (५ परि.)। __'मम सुखानुकूलं नाचरसि' इत्याद्यन्यनायिकासकतया पदे पदे उपालभमानं प्रियतमं प्रति कार्चित्साकूतमाह
जं जं ते ण सुहाअइ तं तं ण करेमि जं ममाअत्तम् । अह चिअ जं ण सुहामि सुहअ तं किं ममाअत्तम् ॥१५॥
[यद्यत्ते न सुखायते तत्तन्न करोमि यन्ममायत्तम् । ___ अहमेव यन्न सुखाये सुभग तत्किं ममायत्तम् ॥] यद्यत्ते न हि सुखयति तत्तन्न करोमि यन्ममायत्तम् ।
सुखयामि यदहमेव न सुभग नु तत्कि ममायत्तम् ॥ १५॥ अहमेव यत् यदि न सुखयामि सुखमुत्पादयामि हे सुभग! तत्किं नु ममाधीनम् ? अपि तु नेत्यर्थः । सुभगेल्यामन्त्रणेन 'अन्यनायिकाप्रीतिमुपलभ्य सौभाग्यगर्वितस्य ते सम्प्रत्यहमेव चक्षुःशूलायिता' इत्युपालम्भो ध्वन्यते । ममाऽनधीनमित्युक्त्या-संप्रति नाहं तव प्रीतिकारिणी, ततोपि दैवपरतन्त्रा दुःखं जीवामीति गूढकोपोभिव्यज्यते ।
दर्शनादिषु लज्जापरतत्रामपि मां कथालापस्ते सुखयतीति नायकं समुत्साहयन्ती काचिल्लजाखभावमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org