Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
३१०
काव्यमाला। . [वर्णक्रमरहितस्याप्येष गुणः केवलं चित्रकर्मणः ।
निमिषमपि यन्न मुञ्चति प्रियो जनो गाढमुपगूढः ॥] वर्णक्रमरहितस्याप्येष गुणश्चित्रकर्मणो ह्येव ।
मुञ्चति न निमिषमपि यत्प्रियो जनो गाढमुपगूढः ॥१२॥ हरितपीतादिवर्णविन्यासरहितस्यापि, अर्थात्, रविन्यासमकृत्वा केवलं मसीरेखामिरेवोत्कीर्णस्यापि । चित्रकर्मण एव आलेख्यस्यैव केवलमयं गुणो यत् प्रियया गाढमुपगूढः प्रियः प्रियां निमेषमात्रमपि न मुञ्चति । चित्रे लिखितः प्रिययोपगूढः प्रियः प्रियां क्षणमपि न मुञ्चतीत्याशयः । प्रियो न मुञ्चतीत्युक्त्या-अहं तु मनसा न मुञ्चाम्यैव परं भवानपि मां न मुञ्चेदिति ममाभिलाष इति सार्वदिकगाढप्रणयार्थ प्रार्थनमभिव्यज्यते । चित्रकर्मण एव गुणस्तवनेन-अयमभिलाषश्चित्रकर्मणैव पूरणीयो न भूत्वा प्रत्यक्षमपि परिणतो भवेदिति प्रियं प्रति गूढमाकूतमभिव्यज्यते । 'यद्वा वर्णक्रमो गुणविशुद्धिपरम्परा तद्रहितस्य । चित्रस्य विचित्रस्य कर्मणः । धर्माधर्मादिरूपस्येत्यर्थः । आत्मा धर्माधर्मादिकं क्षणमपि न मुञ्चतीत्यर्थः। केचित्तु ब्राह्मणादिवर्णक्रमरहितस्यापि 'चित्तअम्मणो' चित्तजन्मनो मन्मथस्वायं कोपि गुणो येन प्रियः प्रियां क्षणमपि न त्यजतीत्यर्थ इति व्याचक्षते” इति पूर्वार्धे अस्पष्टप्राया गङ्गाधरटीका।
दाक्षिण्येनोपभोग्यां नवोढां कश्चिदविदग्धो रमयतीत्यन्यापदेशविधया निजसहचरी काचिदाह
अविहत्तसंधिबन्धं पढमरसुन्भेअपाणलोहिल्लो। उज्वेलिउंण आणह खण्डइ कलिआमुहं भमरो ॥ १३ ॥ [अविभक्तसंधिबन्धं प्रथमरसोद्भेदपानलुब्धः ।
उद्वेल्लितुं न जानाति खण्डयति कलिकामुखं भ्रमरः ॥] अविभक्तसन्धिवन्धं प्रथमरसोद्भेदपानलोभिष्ठः ।
नोटेल्लयितुं बोधति भनक्ति कलिकामुखं भ्रमरः ॥ १३ ॥ सर्वप्रथमो यो रसोद्भेदो मकरन्दोद्गमस्तत्पाने अतिलुब्धो भ्रमरः । न विभक्तः पत्रिकाणां सन्धिबन्धो यस्मिन्नीदृशं कुसुमकलिकाया मुखम् उद्वेल्लयितुं विकासयितुं तु न जानाति किन्तु तद्भनक्ति सरभसप्रवृत्त्या तत्खण्डयतीत्यर्थः । विकासाभावात्पत्रिकाणामपि ('पँखडी') यत्र सन्धिविभागो न जातस्तादृशं कलिकामुखं रसपानलालसाव्यग्रो मधुपः कदर्थयतीत्यर्थः । रसपानलोभिष्ठ इति वक्तव्ये रसोद्धदपानलोभिष्ठ इत्युक्त्याप्रथमप्रथमं यो रसोद्भेदस्तत्समय एव रसपाने लुब्धः, अर्थात् उद्भिद्यमानावस्थायामेव रसपाने लोभस्तथा च रसस्य सद्यस्कतया लोभनीयतातिशयो व्यज्यते । अनेन च कलिकामधुपवृत्तान्तेन-'अन्तःसन्धीनां यत्र विभागो न जातस्तादृशं नवोढनायिकाया गोप्यमङ्गं रत्यनुकूलतायामभिमुखीकर्तुं तु न जानाति किन्तु प्रथमरतिलालसान्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446