Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 385
________________ काव्यमाला। प्राप्तोऽभविष्यत्तर्हि अमृतोद्धरणक्लेशं नाकरिष्यन्निति सूच्यते। अथवा एव' इति अपेरर्थे। ईषत्स्वादोपि न प्राप्त इत्यर्थः। पूर्वमतिदर्शितप्रणयं पश्चाच्चान्यासक्ततया दुर्लभदर्शनं नायकं निभृतमुपालन्धुं स्वप्रणयातिशयं सूचयन्ती काचिदन्यापदेशेनाह आअण्णाअड्डिअणिसिअभल्लमम्माहआइ हरिणीए । अइंसणो पिओ होहिइ त्ति वलिउं चिरं दिहो ॥ ९४ ॥ [आकर्णाकृष्टनिशितभल्लमर्माहतया हरिण्या । अदर्शनः प्रियो भविष्यतीति वलित्वा चिरं दृष्टः ॥] आकर्णाकृष्टनिशितभल्लकमर्माहतहरिण्या। भविता ह्यदर्शनः प्रिय इति नु वलित्वा चिरं दृष्टः ॥ ९४ ॥ आकर्णमाकृष्टेन निशितेन भल्लकेन (बाणविशेषेण ) मर्मणि आहतया हरिण्या। प्रियः अग्रे अदर्शनः [न विद्यते दर्शनं यस्य । दर्शनागोचरः] भविता भविष्यति इति कृत्वा । वलित्वा कन्धरां परावर्त्य लालसोत्कण्ठाभ्यां चिरं दृष्टः । बाणविद्धा मरणोन्मुखापि प्रियप्रणयं न व्यस्मार्षीदिति भावः । भवितेत्यनद्यतनार्थकभविष्यता 'अद्य यद्यपि दृग्गोचरोस्ति तथापि इतो अदर्शनो भविष्यति' इति विषादातिशयः सूच्यते । वलित्वेत्यनेन-'मृत्युकष्टपतितयापि संमुखलाभावेपि यत्नपूर्वकमपि प्रियो दृष्टः' इति प्रणयातिशयो व्यज्यते। हरिण्येत्यनेन-तियग्योनिगतानामपि स्त्रीणां पश्य प्रणयमिति शृण्वन्तं नायकं प्रति योषितां पुरुषातिशायी प्रणयोभिव्यज्यते । तथा च-'दुर्वचनविशिखैमर्माहताप्यहं यत्नशदर्शनार्थमुत्कण्ठिता त्वत्प्रणयमेवमनुपालयामि । भवांस्तु तथा निर्माहो यदर्शनमात्रमपि न ददाति' इत्युपालम्भसंभृतं चरमं व्यङ्ग्यम्। 'प्राणात्ययहेतुरपि न तथा व्यथयति यथा प्रियविरह इत्यन्यापदेशेन स्नेहशिक्षार्थ कोपि प्रियमाह' इति गङ्गाधरः । गाथारत्नकोषनिर्मातुः सातवाहननरेन्द्रस्य शौर्य कीर्तयितुमेकां गाथामाह तत्स्तोता कविः विसमहिअपिक्केकम्बदंसणे तुज्झ सत्तुपरिणीए । को को ण पत्थिओ पहिआणं डिम्भे रुअन्तम्मि ॥ ९५ ।। [विषम स्थितपक्कैकाम्रदर्शने तव शत्रुगृहिण्या । कः को न प्रार्थितः पथिकानां डिम्भे रुदति ॥] विषमस्थितपक्कैकाम्रदर्शने ते तु शत्रुगेहिन्या। पथिकानां कः को वा न वाऽर्थितो रुदति डिम्भे हि ॥ ९५॥ . विषमे ग्रहणार्थमारोहणादिनातिदुर्गमे लघुतमविटपान स्थितस्य पक्कस्यैकस्याम्रफलस्य दर्शने सति । तत्प्राप्त्यर्थं क्षुधिते डिम्भे बालके रुदति सति पथिकानां मध्ये को वा को वा न प्रार्थितः, अपि तु सर्व एव प्रार्थितः । 'एक' पदेन-एकमाम्रफलमपि सुतरां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446