________________
काव्यमाला।
प्राप्तोऽभविष्यत्तर्हि अमृतोद्धरणक्लेशं नाकरिष्यन्निति सूच्यते। अथवा एव' इति अपेरर्थे। ईषत्स्वादोपि न प्राप्त इत्यर्थः।
पूर्वमतिदर्शितप्रणयं पश्चाच्चान्यासक्ततया दुर्लभदर्शनं नायकं निभृतमुपालन्धुं स्वप्रणयातिशयं सूचयन्ती काचिदन्यापदेशेनाह
आअण्णाअड्डिअणिसिअभल्लमम्माहआइ हरिणीए । अइंसणो पिओ होहिइ त्ति वलिउं चिरं दिहो ॥ ९४ ॥ [आकर्णाकृष्टनिशितभल्लमर्माहतया हरिण्या ।
अदर्शनः प्रियो भविष्यतीति वलित्वा चिरं दृष्टः ॥] आकर्णाकृष्टनिशितभल्लकमर्माहतहरिण्या।
भविता ह्यदर्शनः प्रिय इति नु वलित्वा चिरं दृष्टः ॥ ९४ ॥ आकर्णमाकृष्टेन निशितेन भल्लकेन (बाणविशेषेण ) मर्मणि आहतया हरिण्या। प्रियः अग्रे अदर्शनः [न विद्यते दर्शनं यस्य । दर्शनागोचरः] भविता भविष्यति इति कृत्वा । वलित्वा कन्धरां परावर्त्य लालसोत्कण्ठाभ्यां चिरं दृष्टः । बाणविद्धा मरणोन्मुखापि प्रियप्रणयं न व्यस्मार्षीदिति भावः । भवितेत्यनद्यतनार्थकभविष्यता 'अद्य यद्यपि दृग्गोचरोस्ति तथापि इतो अदर्शनो भविष्यति' इति विषादातिशयः सूच्यते । वलित्वेत्यनेन-'मृत्युकष्टपतितयापि संमुखलाभावेपि यत्नपूर्वकमपि प्रियो दृष्टः' इति प्रणयातिशयो व्यज्यते। हरिण्येत्यनेन-तियग्योनिगतानामपि स्त्रीणां पश्य प्रणयमिति शृण्वन्तं नायकं प्रति योषितां पुरुषातिशायी प्रणयोभिव्यज्यते । तथा च-'दुर्वचनविशिखैमर्माहताप्यहं यत्नशदर्शनार्थमुत्कण्ठिता त्वत्प्रणयमेवमनुपालयामि । भवांस्तु तथा निर्माहो यदर्शनमात्रमपि न ददाति' इत्युपालम्भसंभृतं चरमं व्यङ्ग्यम्। 'प्राणात्ययहेतुरपि न तथा व्यथयति यथा प्रियविरह इत्यन्यापदेशेन स्नेहशिक्षार्थ कोपि प्रियमाह' इति गङ्गाधरः ।
गाथारत्नकोषनिर्मातुः सातवाहननरेन्द्रस्य शौर्य कीर्तयितुमेकां गाथामाह तत्स्तोता कविः
विसमहिअपिक्केकम्बदंसणे तुज्झ सत्तुपरिणीए । को को ण पत्थिओ पहिआणं डिम्भे रुअन्तम्मि ॥ ९५ ।। [विषम स्थितपक्कैकाम्रदर्शने तव शत्रुगृहिण्या ।
कः को न प्रार्थितः पथिकानां डिम्भे रुदति ॥] विषमस्थितपक्कैकाम्रदर्शने ते तु शत्रुगेहिन्या।
पथिकानां कः को वा न वाऽर्थितो रुदति डिम्भे हि ॥ ९५॥ . विषमे ग्रहणार्थमारोहणादिनातिदुर्गमे लघुतमविटपान स्थितस्य पक्कस्यैकस्याम्रफलस्य दर्शने सति । तत्प्राप्त्यर्थं क्षुधिते डिम्भे बालके रुदति सति पथिकानां मध्ये को वा को वा न प्रार्थितः, अपि तु सर्व एव प्रार्थितः । 'एक' पदेन-एकमाम्रफलमपि सुतरां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org