________________
६ शतकम् ] संस्कृतगाथासप्तशती।
२९९ सपत्नीप्रणयिनं दयितं प्रत्युपालम्भो व्यज्यते। किंवा-नवोद्गतयौवनायाः कस्याश्चित्सौभाग्यं सूचयितुमियमन्यापदेशेनोक्तिः । तथा च-'लतिका' इति कप्रत्ययेन कैशोर्यारम्भसंभिन्नायामस्यां बालायां स कोप्यनिर्वचनीयो गुणोत्कर्षोस्ति यद्वशेन रसिकैरवशतया केवलं दग्भ्यामेव साभिलाषातिशयमीक्ष्यते, ईक्षणस्याप्यलामे ईक्षितुमिष्यते वा। अर्थात् एतस्या आलोकनमात्रेपि रसिकानां तादृशी उत्कण्ठेति । 'इयं निपातुमिष्यते' इत्यनेन 'अन्यासां लतानां पुष्पं मुखद्वारा पीयते । इयं तु लतैव अक्षिद्वारा पीयते' इत्यन्यापेक्षयोत्कर्षों धन्यते। नायकमुत्कण्ठयन्ती दूती कस्याश्चित्सौन्दर्यातिशयमाह
एक चिअ रूअगुणं गामणिधूआ समुबहइ । अणिमिसणअणो सअलो जीए देवीकओ गामो ॥९२ ॥ [एकैव रूपगुणं ग्रामणीदुहिता समुद्वहति । ___ अनिमिषनयनः सकलो यया देवीकृतो ग्रामः ॥] एकैव हि रूपगुणं ग्रामणिदुहिता समुद्वहति ।
अनिमिषनयनः सकलो यया हि देवीकृतो ग्रामः॥९२॥ एका सैव ग्रामनायकस्य दुहिता तादृशं सौरूप्यगुणं धारयति यया अनिमिषनयनतया सकलोपि ग्रामो देवत्वं नीतः। न निमिषतीसनिमिषम् , अनिमिषं नयनं यस्य सः। रूपकौतुकोल्लमचित्ततया सकलोपि ग्रामस्थो जनस्तां तथा पश्यति यथा न कस्यापि नयनयोनिमेषोपि भवतीति भावः । सकल इति पदेन-'सिद्धो वा अमरो वा एकस्य द्वयोर्वा खमाहात्म्येन देवत्वं कुर्यात् , इयं तु सकलस्य ग्रामजनस्य' इत्युत्कर्षों वन्यते । एकैवेत्येवकारेण ‘सा अद्वितीया रूपवती, ततश्च त्वरितमेव तत्प्राप्तये यतख' इति नायकप्रलोभनं ध्वन्यते। चाटूक्तिभिः प्रियतमा प्रसादयन्कश्चिदधरपानलालसा सवैदग्ध्यमाह
मण्णे आसाओ चिअ ण पाविओ पिअअमाहररसस्स । तिअसेहिँ जेण रअणाअराहि अमअं समुद्धरिअम् ॥ ९३ ॥ [मन्ये आस्वाद एव न प्राप्तः प्रियतमाधररसस्य ।
त्रिदशैर्येन रवाकरादमृतं समुद्धृतम् ॥] आस्वाद एव मन्ये न प्राप्तः प्रियतमाधररसस्य ।
हन्त समुद्धृतममृतं त्रिदशै रत्नाकरायेन ॥ ९३॥ 'रत्नाकर'पदेन-रत्नानि यस्मादाविर्भूतानि तस्मात्सागरात् त्रिदशैः (यौवनमात्रदशाजुष्टैः सदा युवभिः) देवैरुद्धृतममृतमपि तदने वृथेत्युत्कर्षो ध्वन्यते। 'हन्त' पदेन'अमृतोद्धरणक्लेशस्तेषामस्थाने' इति तान् प्रति खेदो ध्वन्यते । एवेत्यनेन-यद्याखादः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org