________________
२९८
काव्यमाला ।
व्रीडावशात्कुत्र व्रजाम इति यथा न जानीमः । -हीणमात्मानं निहोतुं कस्मिन्स्थाने गच्छाम इत्यपि लज्जावशाल स्फुरितमभूदित्याशयः। तां वेलामित्यत्यन्तसंयोगे द्वितीया । अयि मातरिति लोकशैलीसिद्धमान्तरिकानुतापसूचकं संबोधनम् । विकासोन्मुखयौवनायां बालायामनुरक्तचित्तं दयितं काचिदन्यापदेशेनाह
पञ्चग्गप्फुल्लदलुल्लसन्तमअरन्दपाणलेहलओ । तं णत्थि कुन्दकलिआइ जंण भमरो महइ काउम् ॥९॥ [प्रत्यग्रोत्फुल्लदलोल्लसन्मकरन्दपानलुब्धः।
तमास्ति कुन्दकलिकाया यन्न भ्रमरो वान्छति कर्तुम् ॥] प्रत्यग्रोत्फुल्लदलोल्लसन्मरन्दाधिपानसंलुब्धः।
भ्रमरो वाञ्छति कतु यन्न हि तन्नास्ति कुन्दकलिकायाः॥९०॥ प्रत्यग्रमुत्फुल्लानि दलानि यस्याः सा प्रत्यग्रोत्फुल्लदला, एवंविधायाः कुन्दकलिकायाः उल्लसन्मकरन्दस्य अधिकं यथा तथा पाने लुब्धो भ्रमरो यत्कर्तुं न वाञ्छति तन्नास्ति । तां परितो भ्रमणं चाटूनि चुम्बनादीनि च सर्व कर्तुमिच्छतीत्यर्थः । भ्रमरपदेन 'कलिकायां साम्प्रतं मधुजननाभावात्केवलं भविष्यदाशया साभिलाषं भ्रमणमेव करोति' इति सूच्यते । तेन च 'नवयौवनविलासेनोपचिताङ्गया एतस्या बालाया भाविनि समागमसुखे बद्धाशस्त्वं साम्प्रतं तस्याः समन्ताद् भ्रमणं करोषि, परिज्ञातं मया ते मनोरहस्यम्' इति प्रियं प्रत्याकूतमभिव्यज्यते । अस्फुटयौवनायामप्येतस्यां त्वं तथा मुग्धोसि यत्सांप्रतमेव सर्वमात्ममनोरथं पूरयितुमुत्कण्ठसे । केवलमस्मदादिसंकोचादेव संयत इवासीति दयितं प्रति गूढोपालम्भश्चरमं व्यङ्ग्यम् ।।
नवोद्गतयौवनायां सपत्यां सम्प्रति कामिजनलक्ष्यता जातेति सेयॊपालम्भं दयिताय सूचयितुं काचिदन्यापदेशेन मातुली लक्ष्यीकृत्याह
सो को वि गुणाइसओ ण आणिमो मामि कुन्दलइआए। अच्छीहिं चिअ पाउं अहिलस्सइ जेण भमरेहिम् ॥ ९१॥ [स कोऽपि गुणातिशयो न जानीमो मातुलानि कुन्दलतिकायाः। __ अक्षिभ्यामेव पातुमभिलष्यते येन भ्रमरैः ॥] स हि कोपि गुणातिशयो मातुलि जाने न कुन्दलतिकायाः ।
हरभ्यामेव निपातुं भ्रमरैरभिलष्यते येन ॥ ९१ ।। एतस्यां क एतादृशो गुणोस्ति येन परितः सुरक्षिततया सविधोपसरणानवसरात्केवलं नयनाभ्यामेव रसिककामुकैरियममिवीक्ष्यते । तथा च 'सेयं बहुकामुकानामधुनैव लक्ष्यभूता जाता, अग्रे तु न जाने किं भावि' इति नायकं प्रति भ्रमरैरिति बहुवचनेन ईर्ष्याबीजं निभृतमुपक्षिप्यते । अथवा-'अहं तु तादृशं गुणमस्या न जाने, तथापि स्वमहर्निशमेनामनवसरे केवलं नयनाभ्यामेव विलोकयसि । कोयमस्थाने संरम्भः' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org