________________
६ शतकम्
सस्कृतगाथासप्तशती।
२९७
_ 'दे' शब्दः सानुनयसंबोधने । तस्याः प्रेमपरिपाकानभिज्ञत्वाद् हे बालक ! लघु शीघ्रं व्रज। त्वया परित्यक्तत्वात् शोचनीयतया वराकिका दीना सा म्रियते । 'क' प्रत्ययेन 'मरणसमयेपि न तां दयनीयां प्रत्यवेक्षसे' इति कारुण्यातिशयो ध्वन्यते। तवेत्यनेन 'अन्येषां पुनः पीयूषाद्यौषधप्रदानेनापि न जीविष्यति' इति सूच्यते । दर्शनेनापीत्यपिना-आलिङ्गनचुम्बनाधरपानादीनां तु किं वक्तव्यमिति सूच्यते। "म्रियते' इति वर्तमानत्वोक्त्या-त्वदानयनार्थमिहागमनसमये सा जीविताभूदिदानीमियता विलम्बन सा म्रियमाणास्ति' इति व्यज्यते । 'मम तत्स्थानप्राप्तेः पूर्वमेव मृतायां तस्यां किं फलं गमनेनेति' चेद्धदये संदिह्यसे, तदर्थमाह-जीविष्यतीति । यदि मृतापि भवेत्तदापि सा जीविष्यति, किं पुनर्पियमाणेति भावः । __ विनाशकारणमपि मुग्धतया त्वं सुखहेतुं मन्यसे इत्यन्यापदेशेन कोपि निजसहचरं शिक्षयति
तम्मिरपसरिअहुअवहजालालिपलीविए वणाहोए । किंसुअवणन्ति कलिऊण मुद्धहरिणो ण णिक्कमइ ॥ ८८॥ [ताम्रवर्णप्रसृतहुतवहज्वालावलिप्रदीपिते वनाभोगे।
किंशुकवनमिति कलयित्वा मुग्धहरिणो न निष्कामति ॥] आताम्रविसरदनलज्वालावलिदीपिते वनाभोगे। किंशुकवनमिति मत्वा निष्कामति मुग्धहरिणो न ॥ ८८॥ आताम्रा प्रसरन्ती या अनलज्वालावलिः (वह्निशिखाश्रेणिः) तया दीपिते प्रज्वलिते वनप्रान्तरे । अतिताम्राभिर्वह्निशिखाभिर्व्याप्तं वनं रक्तवर्णैः किंशुकवृक्षैर्वलयितमिति मत्वा मुग्धतया हरिणो वनाद्बहिर्न गच्छतीति भावः । तथा चात्र स्वतःसंभविना भ्रान्तिमदलङ्कारण 'परललनालम्पटस्त्वमन्तःकोपकषायितैरपि बहिःप्रियदर्शनैर्जनः परिवृते त्वत्प्रेयसीसदने अनिष्टहेतुमपि तत्संसर्ग सुधासदृशं मन्यमानो मोहमुग्धतया न तदावासं परित्यजसि' इति वस्तु व्यज्यते। शृण्वन्तमुपपतिं प्रति काचिदात्मनः कामकलाकौशलं ख्यापयितुमन्तरङ्गसखीमाह
णिहुअणसिप्पं तह सारिआइ उल्लाविरं म्ह गुरुपुरओ। जह तं वेलं माए ण आणिमो कत्थ वच्चामो ॥ ८९ ॥ [निथुवनशिल्पं तथा शारिकयोल्लपितमस्माकं गुरुपुरतः ।
यथा तां वेलां मातनं जानीमः कुत्र प्रजामः ॥] शारिकया गुरुपुरतो निधुवनशिल्पं तथा किलोल्लपितम् ।
तां वेलामयि मातर्यथा बजामः कुतो न जानीमः॥ ८९ ॥ निधुवनशिल्पं सुरतवैचित्र्यम् । गुरुजनानां पुरतः अग्रतः। उल्लपितम् अर्थमपरिज्ञायापि यथा दृष्टं श्रुतं वा तथा जल्पितमित्यर्थः । अयि मातः तां वेलां तस्यां वेलायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org