________________
२९६
काव्यमाला । नवपल्लवं विषण्णाः पथिकाः पश्यन्ति.चूतवृक्षस्य ।
लोहितसमूहराजितमुद्यत्कामस्य हस्तभल्लमिव ॥ ८५॥ उद्यतः विरहिनिपीडनाय साम्प्रतमुजम्भमाणस्य कामस्य लोहितसमूहराजितं रक्तभराक्तं हस्तविधृतं कुन्तमिव पश्यन्ति । भल्लाने हस्तपदप्रयोगेण 'स भल्लः कामेन साम्प्रतं हस्ते धृतः' इति भल्लस्य भेदनकार्यव्यापृतता ध्वन्यते । लोहितसमूहेन लिप्तं युक्तमित्याद्यनुक्त्वा 'राजितम्' इति कथनेन कामभल्लस्य लोहितलिप्तता शोभेति विरहिवर्गार्थ क्रूरतातिशयो ध्वन्यते । विषण्णाः विषादं प्राप्तवन्तः पश्यन्तीत्यत्र भूतकालिकेन क्तेन सह वर्तमानकालिकस्य लटः संबन्धात् 'विरहिभीषकश्चतपल्लवः पश्चादृष्टौ पतति विषादस्तु ततः पूर्वमेवारब्धो भवतीत्यतिशयितविषादयोतिका अतिशयोक्तिः सूच्यते । ततश्च-पथिकतां स्वीकुर्वतस्तवापि सेयं दशाऽनुपदभाविनीति प्रियतमं प्रति व्यज्यते । 'उप्पङ्ग' शब्दः समूहवाचको देशी । विदेशगमनानायकं निवारयन्ती काचिनिपुणनितम्बिनी निजसखीमाह
महिलाणं चिअ दोसो जेण पवासम्मि गविआ पुरिसा । दोतिण्णि जाव ण मरन्ति ता ण विरहा समप्पन्ति ॥८६॥ [महिलानामेव दोषो येन प्रवासे गर्विताः पुरुषाः ।
द्वे तिस्रो यावन्न नियन्ते तावन्न विरहाः समाप्यन्ते ॥] दोषोयं महिलानां यद्धि प्रवसन्ति गर्विताः पुरुषाः।
विरहान्तो नहि तावद्वित्रा यावन्नियन्ते नो ॥८६॥ द्वित्राः द्वे तिस्रो वा प्रोषितपतिका यावन्न म्रियन्ते तावद्विरहान्तो विरहसमाप्ति - त्यर्थः । प्रियामरणं विलोक्यैव एते प्रवासं त्यक्ष्यन्तीति भावः । 'महिला' 'पुरुष'पदोपादानेन 'मह्यन्ते तस्मान्महिलाः' इति विनय-सहनशीलतादिगुणभाजनतया आत्मनः पूजनीयतागुणं रक्षन्त्यः स्त्रियः 'पुर' अग्रगमने इतिधातुनिष्पन्नान् अत एव अग्रगामि. तागर्वण अवलिप्तान्पुरुषान् शालीनतया ताः सहन्ते इति पुरुषान्प्रत्युपालम्भो ध्वन्यते । 'यावन्न मरिष्यन्ति तावद्विरहा न समाप्यन्ते' इति भविष्यत्स्थाने 'म्रियन्ते' इति वर्तमानोक्त्या-तव विरहे मम भरणमदूरभावि विचारयेति ध्वन्यते । नायिकासविधमुपगन्तुं नायकं त्वरयन्ती दूती आह
बालअ दे वच्च लहुं मरइ वराई अलं विलम्बेण । सा तुज्झ दंसणेण वि जीवेजइ णत्थि संदेहो ॥ ८७ ।। [बालक हे व्रज लघु म्रियते वराकी अलं विलम्बेन ।
सा तव दर्शनेनापि जीविष्यति नास्ति संदेहः ॥] ब्रज लघु बाल म्रियते वराकिकाऽलं विलम्बेन । निःसंदेहं तव सा जीविष्यति दर्शनेनापि ॥ ८७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org