________________
६ शतकम् ] संस्कृतगाथासप्तशती।
२९५ [खरपवनरयगलहस्तितगिरिकूटापतनमिनदेहस्य ।
धुकधुकायते जीव इव विद्युत्कालमेघस्य ॥] खरमारुतगलहस्तितगिरिकूटापतनभिन्नदेहस्य ।
कालजलदस्य पश्यत जीव इव हि धुकधुकायते विद्युत् ॥ ८३ ॥ खरमारुतेन प्रचण्डपवनेन वेगाद् गलहस्तितः गलहस्तं प्रदाय प्रेरितः, अत एव गिरिकूटाद् गिरिशृङ्गात् आपतनेन भिन्नदेहो विशीर्णगात्रो यः कालमेघस्तस्य जीव इव जीवितमिव (प्राणा इव) विद्युत् धुकधुकायते धुकधुकशब्दपूर्वकं कम्पते इत्यर्थः । अत्युच्चस्थानात्पतितस्य विशीर्णदेहस्य जनस्य यथा हृदये कम्पो भवति तथायं विद्युत्कम्प इत्याशयः । कालः श्यामः। पक्षान्तरे च यात्रासमये अकीर्तनीयनामा मृत्युः। तथा चैतन्नामग्रहणेन गिरिपतन-देहविशरणादिचर्चाऽमङ्गलेन च यात्रायाः प्रतिरोधाकूतं ध्वन्यते । अथवा 'यदि वर्षासु विरहं मे आपादयसि तर्हि ममापीयं दशा भाविनी' इति दयितं प्रति व्यज्यते । धुकधुकायते इत्यनुकरणनिष्पन्नो नामधातुः । 'दुर्दिनाभिसारिका कान्तमन्यमनस्कं कर्तुमाह' इति गङ्गाधरः।। अपरयापि गाथया तत्संवादिनमेवार्थमाह- .
मेहमहिसस्स णजइ उअरे सुरचावकोडिभिण्णस्स । कन्दन्तस्स सविअणं अन्तं व पलम्बए विजू ॥ ८४॥ [ मेघमहिषस्य ज्ञायते उदरे सुरचापकोटिभिन्नस्य ।
क्रन्दतः सवेदनमन्त्रमिव प्रलम्बते विधुत् ॥] मेघमहिषस्य मन्ये ह्युदरे सुरचापकोटिभिन्नस्य ।
अन्नमिव लम्बतेसौ सवेदनं क्रन्दतो विद्युत् ॥ ८४ ॥ सुरचापस्य ( इन्द्रधनुषः) कोट्या तीक्ष्णकोणाग्रेण उदरे भिन्नस्य पाटितस्य अत एव सवेदनं क्रन्दतो मेघरूपमहिषस्य पाटनाद्वहिर्निर्गतम् अन्नमिव सेयं विद्युल्लम्बते इति मन्ये । मूले तु 'अत्रमिव लम्बते' इति ज्ञायते प्रतीयते इत्यर्थः । इन्द्रधनुषः सविधे गर्जितं कुर्वति श्यामे मेघे मध्यगता विद्युत्तथा प्रतीयते यथा धनुष्कोट्या पाटि. तस्य अत एव वेदनावशादार्तनादं मुञ्चतो महिषस्योदरे अन्त्रं लम्बते इत्याशयः।।
प्रवासार्थमुद्यताय दयिताय वसन्तस्य विरहिदुरन्ततां द्योतयन्ती काचित्तदुपक्रम सूचयति
णवपल्लवं विसण्णा पहिआ पेच्छन्ति चूअरुक्खस्स । कामस्स लोहिउप्पङ्गराइअं हत्थभल्लं व ॥ ८५॥ [नवपल्लवं विषण्णाः पथिकाः पश्यन्ति चूतवृक्षस्य । कामस्य लोहितसमूहराजितं हस्तभल्लमिव ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org