________________
६ शतकम् ] संस्कृतगाथासप्तशती।
३०१ दुर्लभमभूदिति शत्रुदुर्दशया राजशौर्योत्कर्षों ध्वन्यते । 'डिम्भ' पदेन-बालस्य स्वल्पवयस्कतया हठबाहुल्यं क्षुधातुरत्वं च सूच्यते । कः को वेत्यनेन-अप्रार्थनीयोपि प्रार्थित इति दैन्यातिशयो ध्वन्यते । पथिकानामित्यनेन-मार्गगामिनामसंबन्धिनामपि सा दयनीया जातेति दारिद्यातिशयः सूच्यते । उक्त इति स्थाने अर्थित इत्यनेन-अतिदीनताप्रदर्शनपुरस्सरं तत्पातयितुं याचित इति द्योत्यते । शत्रुगेहिन्येति गृहिणीपदेन-'या गृहिणी अकार्यशतैरपि सामान्यदीनस्यापि भर्तव्या स्मृत्यादावुक्ता, सापि त्वत्कोपवशाद्वैरिनरेन्द्ररेवं कदर्थिता' इति वर्ण्यस्य राज्ञो महाप्रभावत्वं ध्वन्यते । गङ्गाधरेण ल. लितैरक्षरैरस्याशयोऽवर्ण्यत-त्वदागमनशङ्कासंजातवेपथुस्खलितचरणसंचारमशेषपरिवार विहाय बालकमादाय तव शत्रुविलासिनी महारण्यं प्राविशत् । तत्र च घनघनायमानघनच्छदच्छायतरुनिकरनिराकृतदिनकरकरोत्करश्यामायिते वर्मनि गच्छन्ती क्षुत्पीडितस्य बालकस्याकन्दितमाकर्ण्य निपुणतर निरीक्षमाणा विषमशाखान्तर्गतमेकमाम्रफलमद्राक्षीत् । तत्पातनार्थ च पान्थानयाचतेति' ।
यौवन-वैदग्ध्यादिभिर्विलोभनीयया मालाकारस्त्रिया लेषभणितिभिरभिमुखीकृतः कश्चिद्रसिकः शृण्वन्त्यां तस्यां साभिलाषं निजसहचरमाह
मालारी ललिउल्लुलिअबाहुमूलेहिँ तरुणहिअआई। उल्लूरइ सजुरिआई कुसुमाई दावेन्ती ॥ ९६॥ [मालाकारी ललितोल्ललितबाहुमूलाभ्यां तरुणहृदयानि ।
उल्लुनाति सद्योऽवलूनानि कुसुमानि दर्शयन्ती ॥] युवहृदयानि लुनाति हि ललितोल्ललितोच्चबाहुमूलाभ्याम् ।
कुसुमानि दर्शयन्ती सद्योलूनानि मालिनी सेयम् ॥ ९६॥ सद्यस्रोटितानि कुसुमानि दर्शयन्ती सेयं मालिनी, ललिताभ्यां सुन्दराभ्याम् उल्ललिताम् उद्धृताभ्यां विशालाभ्यामिति यावत् । उच्चाभ्यां च बाहुमूलाभ्याम् (स्तनाभ्याम्) यूनां हृदयानि लुनाति व्याकुलयतीत्यर्थः । 'उल्ललिताभ्यां चञ्चलाभ्यां बाहुमूलाभ्यामुपलक्षिता' इति गङ्गाधरः । 'सद्योलूनानि कुसुमानि दर्शयन्ती हृदयानि लुनाति' इत्युभयत्र लवनसादृश्येन 'यथा मया कुसुमानि लूनानि तथा युवहृदयान्यपि लवितुं सम
हम्' इति हृदयानां कुसुमसमानत्वं व्यङ्ग्यम् । ततश्च 'त्वया कानिचिद्रसिकहृदयानि पूर्वतः पाटितानि, येषां सद्यस्कतया विलम्बोपि न जातः, आईवेदनानीति यावत् । कानिचिच्च अस्मादृशां हृदयानि साम्प्रतं लुनासि, बहुतरुणहृदयनिकृन्तकत्वादहो ते नैष्ठुर्यम्' इति साभिलाष आक्षेपो ध्वन्यते। किञ्च मालिनी मालाकारीतिपदेन-'पुष्पमालानां निर्माणार्थं यथा त्वं पूर्वमेव लवनक्लेशं विसोढवन्ति कुसुमानि सूच्या विद्धवा पुनः सूत्रप्रोतानि करोषि तथा यूनामस्मादृशां हृदयानि सांप्रतं लुनासि (व्याकुलीकृत्य वशीकरोषि) पश्चाच्च निष्ठुरहृदयत्वाद्विरहवेदनारूपया सूच्या विद्धानि करिष्यसि, अहो निर्दयत्वम्' इत्युपालम्भो ध्वन्यते ।
सं. गा. २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org