Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 388
________________ संस्कृतगाथासप्तशती । अकृतज्ञक घनवर्ण घनपर्णान्तरिततरणिकरनिकरम् । यदि रे रे वानीरं रेवानीरं स्मरस्यपि न ॥ ९९ ॥ कृतं न जानातीत्यकृतज्ञः कृतोपकार विस्मर्ता, तत्संबोधनम् । ततः कुत्सार्थे कन् । घनवर्णं मेघश्यामम् । घनैर्निबिडैः पल्लवैरन्तरित आच्छादितस्तरणिकरनिकरः सूर्यरश्मिसमूहो येन, एवंविधं वानीरं वेतसकुषं यदि न स्मरसि मा स्मर तावत् । परं रेवाया नर्मदाया नीरं जलमपि न स्मरसि ? इति काकुः । तत्तु अवश्यं स्मर्तव्यमित्यर्थः । रे रे इति साक्षेपं संबोधनार्थम् । उद्दीप्तमदनां ग्रामणीसुतां वैद्यव्याजेनोपगन्तुमयमवसर इति कामुकं श्रावयन्ती दूती ग्रामणीसुतायाः पीडया निजखेदं प्रदर्शयति मन्दं पि ण आणइ हलिअणन्दणो इह हि डडूगामम्मि । गहवइसुआ विवज्जइ अवेज्जए कस्स साहामो ॥ १०० ॥ [ मन्दमपि न जानाति हलिकनन्दन इह हि दग्धग्रामे । गृहपतिसुता विपद्यतेऽवैद्यके कस्य कथयामः ॥ ] मन्दमपि हलिकनन्दन इह दग्धग्रामके न जानाति । निर्वैद्येकं ब्रूमो गृहपतितनया विपद्यते चाद्य ॥ १०० ॥ निर्वैद्ये वैद्यरहिते, अत एव दग्धग्रामके निन्दनीयेस्मिन् ग्रामहतके । अतिसंतापपीडिता गृहपतितनया ग्रामनायकस्य सुता अद्य विपद्यते । इलिकनन्दनो गृहजामाता तत्पतिश्च मन्दमपि खल्पमपि न जानाति, अज्ञ इत्यर्थः । इदानीं कं ब्रूमः कस्मै कथयामीत्यर्थः । हलिकनन्दनपदेन 'तत्पतिस्तु हलिकस्य पुत्रो हालिकः पशुकल्प एव । अत एव द्वितीयप्रामादागतो वैद्यो भूत्वा मदनतप्तायास्तस्याः साधीयसीं चिकित्सां कुरु' इति कामुकं प्रति व्यज्यते । गृहपतितनयापदेन - ' गृहे तस्याः प्रचुरं प्रभुत्वम्, अत एव चिकित्समानस्य ते न कस्मिन्नपि कार्ये बाधा भवेत्' इति सूच्यते । 'कापि गृहपतिसुताहलिक सुतानुरागं विरहवैधुर्यं च प्रतिपादयन्ती हलिकसुतोपालम्भपुरस्सरमाह' इति गङ्गाधरः । 'हलिक पुत्रनिमित्तममन्दपञ्चबाणबाणप्रहारजर्जरितहृदया ग्रामणीसुता: विपद्यते । हलिकपुत्रश्च पशुकल्पः । अतः कस्मै कथयामीत्यर्थः' इति तट्टीका । शतकसमाप्तिमाह ६ शतकम् ] - Jain Education International रसिअजण हिअअदइए कइवच्छलपमुहसुकइणिम्मइए । सतसम्म समत्तं सङ्कं गाहासहं एअम् ॥ [ रसिकजनहृदयदयिते कविवत्सलप्रमुख सुकविनिर्मिते । सप्तशतके समाप्तं षष्ठं गाथाशतकमेतत् ॥ ] रसिकजनहृदययिते कविवत्सल कुशलसुकविपरिरचिते । सप्तशतके समाप्तं षष्ठं गाथाशतकमेतत् ॥ १०१ ॥ ३०३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446