Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 389
________________ ३०४ काव्यमाला। सप्तमं शतकम् पशुदम्पत्योरप्येवमन्योन्यप्रणयो भवति, न पुनस्तवेति मन्दप्रणयं नायकमुपालभमाना नायिकासखी साकूतमन्यापदेशेनाह एक्कक्कमपरिरक्षणपहारसँमुहे कुरङ्गमिहुणम्मि । वाहेण मण्णुविअलन्तवाहधोअंधणुं मुक्कम् ॥ १॥ [अन्योन्यपरिरक्षणप्रहारसंमुखे कुरङ्गमिथुने । व्याधेन मन्युविगलद्वाष्पधौतं धनुर्मुक्तम् ॥] अन्योन्यरक्षणाय प्रहारसंमुखकुरङ्गमिथुने हि। व्याधेन मन्युविगलद्वाष्पविधीतं धनुर्मुक्तम् ॥१॥ परस्पररक्षणनिमित्तं प्रहारसंमुखे कुरङ्गमिथुने, मन्युना कारुण्येन विगलन् यो बाष्पस्तेन विधौतं धनुर्व्याधेन त्यक्तम् । 'मन्युदैन्ये ऋतौ क्रुधि' इति हैमः । अयं भावःव्याधेन मृगद्वन्द्वं प्रति प्रहाराय यदा धनुषि बाणः संधातुमाहितस्तदा परस्परस्य रक्षणार्थ मृगद्वन्द्वे पर्यायेण लक्ष्यसंमुखे सति [यदा मृगे प्रहाराय सन्धानं कृतं तदा तद्रक्षणनिमित्तं मृगी प्रहारस्य संमुखं स्थिताभूत् , यदा स्वयं संमुखमागतायां मृग्यां लक्ष्य बद्धं तदा तद्रक्षणार्थ मृगः प्रहारस्य संमुखमवातिष्ठत इति ] एवमन्योन्यानुरागमवलोक्योत्पन्नकारुण्येन व्याधेन धनुरेव त्यक्तमिति । आर्द्रमिति स्थाने विधौतमित्यनेन-कारुण्यजनितेनाश्रुणा तत्सिक्तमेव न किन्तु पशुवधपापपङ्किलं तद्धनुस्त दिने क्षालितकल्मषतया पवित्रमिवाभूत् इति ध्वन्यते । मुक्तमिति पदेन तद्दिनादारम्य पशुवधपातकितमपि संसारे तत्कर्मतो मुक्तिं गतमभूदिति धनुष उत्कर्षः सूच्यते । 'नायकमुपालब्धुं दूती आह' इति गङ्गाधरः। नायिकाया विरहविकलतां प्रदर्य मन्दस्नेहं नायकं तदुपगमाय त्वरयन्ती दूती आहता सुहअ विलम्ब खणं भणामि की वि कएण अलमह वा । अविआरिअकज्जारम्भआरिणी मरउ ण भणिस्सम् ॥२॥ [तत्सुभग विलम्बस्व क्षणं भणामि कस्या अपि कृतेनालमथ वा । __ अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि ॥] सुभग विलम्बस्व मनाग् भणामि कस्याश्चिदर्थमलमथवा । न भणिष्याम्यविचारितकार्यसमारम्भकारिणी म्रियताम् ॥२॥ क्षणं विलम्बस्व तिष्ठेत्यर्थः । कस्याश्चिदर्थमहं भणामि, मम स्वार्थः कश्चिन्न । स्वार्थी तु कदाचन मृषापि भाषेत, परमहं तु द्वितीयस्याः कृते वदाम्यत एव तत्रावश्यं प्रत्ययः कर्तव्य इति भावः । अथवा अलम् , न भणियामीत्यर्थः । अविचारितकार्यारम्भिणी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446