________________
३०४
काव्यमाला।
सप्तमं शतकम्
पशुदम्पत्योरप्येवमन्योन्यप्रणयो भवति, न पुनस्तवेति मन्दप्रणयं नायकमुपालभमाना नायिकासखी साकूतमन्यापदेशेनाह
एक्कक्कमपरिरक्षणपहारसँमुहे कुरङ्गमिहुणम्मि । वाहेण मण्णुविअलन्तवाहधोअंधणुं मुक्कम् ॥ १॥ [अन्योन्यपरिरक्षणप्रहारसंमुखे कुरङ्गमिथुने ।
व्याधेन मन्युविगलद्वाष्पधौतं धनुर्मुक्तम् ॥] अन्योन्यरक्षणाय प्रहारसंमुखकुरङ्गमिथुने हि। व्याधेन मन्युविगलद्वाष्पविधीतं धनुर्मुक्तम् ॥१॥ परस्पररक्षणनिमित्तं प्रहारसंमुखे कुरङ्गमिथुने, मन्युना कारुण्येन विगलन् यो बाष्पस्तेन विधौतं धनुर्व्याधेन त्यक्तम् । 'मन्युदैन्ये ऋतौ क्रुधि' इति हैमः । अयं भावःव्याधेन मृगद्वन्द्वं प्रति प्रहाराय यदा धनुषि बाणः संधातुमाहितस्तदा परस्परस्य रक्षणार्थ मृगद्वन्द्वे पर्यायेण लक्ष्यसंमुखे सति [यदा मृगे प्रहाराय सन्धानं कृतं तदा तद्रक्षणनिमित्तं मृगी प्रहारस्य संमुखं स्थिताभूत् , यदा स्वयं संमुखमागतायां मृग्यां लक्ष्य बद्धं तदा तद्रक्षणार्थ मृगः प्रहारस्य संमुखमवातिष्ठत इति ] एवमन्योन्यानुरागमवलोक्योत्पन्नकारुण्येन व्याधेन धनुरेव त्यक्तमिति । आर्द्रमिति स्थाने विधौतमित्यनेन-कारुण्यजनितेनाश्रुणा तत्सिक्तमेव न किन्तु पशुवधपापपङ्किलं तद्धनुस्त दिने क्षालितकल्मषतया पवित्रमिवाभूत् इति ध्वन्यते । मुक्तमिति पदेन तद्दिनादारम्य पशुवधपातकितमपि संसारे तत्कर्मतो मुक्तिं गतमभूदिति धनुष उत्कर्षः सूच्यते । 'नायकमुपालब्धुं दूती आह' इति गङ्गाधरः। नायिकाया विरहविकलतां प्रदर्य मन्दस्नेहं नायकं तदुपगमाय त्वरयन्ती दूती आहता सुहअ विलम्ब खणं भणामि की वि कएण अलमह वा । अविआरिअकज्जारम्भआरिणी मरउ ण भणिस्सम् ॥२॥
[तत्सुभग विलम्बस्व क्षणं भणामि कस्या अपि कृतेनालमथ वा । __ अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि ॥] सुभग विलम्बस्व मनाग् भणामि कस्याश्चिदर्थमलमथवा ।
न भणिष्याम्यविचारितकार्यसमारम्भकारिणी म्रियताम् ॥२॥ क्षणं विलम्बस्व तिष्ठेत्यर्थः । कस्याश्चिदर्थमहं भणामि, मम स्वार्थः कश्चिन्न । स्वार्थी तु कदाचन मृषापि भाषेत, परमहं तु द्वितीयस्याः कृते वदाम्यत एव तत्रावश्यं प्रत्ययः कर्तव्य इति भावः । अथवा अलम् , न भणियामीत्यर्थः । अविचारितकार्यारम्भिणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org