________________
संस्कृतगाथासप्तशती ।
अकृतज्ञक घनवर्ण घनपर्णान्तरिततरणिकरनिकरम् । यदि रे रे वानीरं रेवानीरं स्मरस्यपि न ॥ ९९ ॥
कृतं न जानातीत्यकृतज्ञः कृतोपकार विस्मर्ता, तत्संबोधनम् । ततः कुत्सार्थे कन् । घनवर्णं मेघश्यामम् । घनैर्निबिडैः पल्लवैरन्तरित आच्छादितस्तरणिकरनिकरः सूर्यरश्मिसमूहो येन, एवंविधं वानीरं वेतसकुषं यदि न स्मरसि मा स्मर तावत् । परं रेवाया नर्मदाया नीरं जलमपि न स्मरसि ? इति काकुः । तत्तु अवश्यं स्मर्तव्यमित्यर्थः । रे रे इति साक्षेपं संबोधनार्थम् ।
उद्दीप्तमदनां ग्रामणीसुतां वैद्यव्याजेनोपगन्तुमयमवसर इति कामुकं श्रावयन्ती दूती ग्रामणीसुतायाः पीडया निजखेदं प्रदर्शयति
मन्दं पि ण आणइ हलिअणन्दणो इह हि डडूगामम्मि । गहवइसुआ विवज्जइ अवेज्जए कस्स साहामो ॥ १०० ॥ [ मन्दमपि न जानाति हलिकनन्दन इह हि दग्धग्रामे । गृहपतिसुता विपद्यतेऽवैद्यके कस्य कथयामः ॥ ] मन्दमपि हलिकनन्दन इह दग्धग्रामके न जानाति । निर्वैद्येकं ब्रूमो गृहपतितनया विपद्यते चाद्य ॥ १०० ॥
निर्वैद्ये वैद्यरहिते, अत एव दग्धग्रामके निन्दनीयेस्मिन् ग्रामहतके । अतिसंतापपीडिता गृहपतितनया ग्रामनायकस्य सुता अद्य विपद्यते । इलिकनन्दनो गृहजामाता तत्पतिश्च मन्दमपि खल्पमपि न जानाति, अज्ञ इत्यर्थः । इदानीं कं ब्रूमः कस्मै कथयामीत्यर्थः । हलिकनन्दनपदेन 'तत्पतिस्तु हलिकस्य पुत्रो हालिकः पशुकल्प एव । अत एव द्वितीयप्रामादागतो वैद्यो भूत्वा मदनतप्तायास्तस्याः साधीयसीं चिकित्सां कुरु' इति कामुकं प्रति व्यज्यते । गृहपतितनयापदेन - ' गृहे तस्याः प्रचुरं प्रभुत्वम्, अत एव चिकित्समानस्य ते न कस्मिन्नपि कार्ये बाधा भवेत्' इति सूच्यते । 'कापि गृहपतिसुताहलिक सुतानुरागं विरहवैधुर्यं च प्रतिपादयन्ती हलिकसुतोपालम्भपुरस्सरमाह' इति गङ्गाधरः । 'हलिक पुत्रनिमित्तममन्दपञ्चबाणबाणप्रहारजर्जरितहृदया ग्रामणीसुता: विपद्यते । हलिकपुत्रश्च पशुकल्पः । अतः कस्मै कथयामीत्यर्थः' इति तट्टीका । शतकसमाप्तिमाह
६ शतकम् ]
-
Jain Education International
रसिअजण हिअअदइए कइवच्छलपमुहसुकइणिम्मइए । सतसम्म समत्तं सङ्कं गाहासहं एअम् ॥
[ रसिकजनहृदयदयिते कविवत्सलप्रमुख सुकविनिर्मिते । सप्तशतके समाप्तं षष्ठं गाथाशतकमेतत् ॥ ] रसिकजनहृदययिते कविवत्सल कुशलसुकविपरिरचिते । सप्तशतके समाप्तं षष्ठं गाथाशतकमेतत् ॥ १०१ ॥
३०३
For Private & Personal Use Only
www.jainelibrary.org