________________
७ शतकम् ]
संस्कृतगाथासप्तशती।
सा ( यस्याः कृते अहं वक्तुमिच्छामि ) म्रियताम् , अहं तत्कृते किमपि न भणिष्यामि । तिष्ठेति स्थाने 'विलम्बख' इत्युक्त्या 'अन्यासक्तस्य ते साम्प्रतमपि तत्कोपभयेन शीघ्रगमनमावश्यकम् , परं परप्राणरक्षणपुण्यार्थ क्षणं विलम्बमेव सहख' इति गूढमाक्षेपो ध्वन्यते । विचारणात्खयमुक्तस्यापि प्रतिषेधरूपेण प्रथमाक्षेपालङ्कारेण-'त्वादृशस्य अस्थिरप्रणयस्य प्रणयपरिणाममविचार्यैव यया तुभ्यमात्मा समर्पितः, तस्या भरणमेव परिणामे भावि । ततो म्रियमाणायाः कृते को वा तवोपकारभारं गृह्णीयात्' इति अस्थिरस्नेहतोपालम्भो ध्वन्यते । सुभगेत्यामन्त्रणेन-'बयस्त्वय्यनुरक्ताः, अत एव निजसौंन्दर्यमूलकसौभाग्येनैव तव सोयं गर्वः' इति व्यज्यते । सत्यं प्रेमाणमपरिचिन्वता त्वया सह प्रणयं कुर्वत्यास्तस्याः कामं न भवेत्पश्चात्तापः, परं मादृशानां त्ववश्यमस्ति । ततश्चेदानीं स्त्रीवधपातकभयादेव त्वरितं तदन्तिके गन्तव्यमिति चरमं व्यङ्ग्यम् । __ पूर्व बद्धप्रणयेन हलिकसुतेन संप्रति प्रतिरुद्धप्रेमव्यवहारा काचित्तस्यान्यत्रानुराग सूचयन्ती सेj सखीमाह
भोइणिदिण्णपहेणअचक्खिअदुस्सिक्खिओ हलिअउत्तो। एत्ताहे अण्णपहेणआण छीओल्ल देई ॥३॥ [भोगिनीदत्तप्रहेणकास्वादनदुःशिक्षितो हलिकपुत्रः।
इदानीमन्यप्रहेणकानां छी इति वचनं ददाति ॥] नवभोगिनीप्रदत्तप्रहेणकावादलम्पटो ह्यधुना।
अन्यप्रहेणकानां हलिकसुतश्छीति वहति वचः॥३॥ नवीनया भोगिन्या ग्रामव्यापारिकस्त्रिया दत्तानां प्रहेणकानां मोदकादिवायनकानामास्वादे लम्पटो लोलुपः (दुःशिक्षितः) हलिकपुत्रः अन्यप्रहेणकानां कृते इदानीं 'छी' इति वचो वहति ददाति । 'छी' इति सनासासंकोचं निन्दानुकरणं लोके प्रसिद्धम् । 'प्रहेणकं वायनकम्' इति हाराबली । 'लाहिणा' इति जयपुरभाषा । हलिकसुतपदेन-'हालिकप्रायोयं नवीनतया लोभनीयायां भोगिन्यामनुरक्तत्वेन गर्विष्ठः साम्प्रतमनुरक्तास्वप्यस्मादृशीषु विरज्यति' इति सूच्यते । व्यापारिकपत्नीपरमपि 'भोगिनी' पदमनुरणनविधया-सा भोगलम्पटेति तस्यां भोगरसिकोयमनुरक्तः' इति सूचयति । 'पूर्वमस्माखनुरक्ततया त्वं यत्किञ्चिदप्यस्मद्दत्तं वस्तु बह्वमन्यथाः । भोगिनीलम्पटस्त्वं न तादृशः' इति अधुनापदसहकारेण ध्वन्यते । 'छीवोल्लअम्' इत्यस्य छीवोल्लणं मुखविकार इत्यर्थ इति कुलवालदेवः । एतदनुसारं 'हलिकसुतश्छीति संकुचति नासाम्' इति पाठः साधीयान् स्यात् । वने विहरन्तीं प्रेयसी प्रातरम्भोजशोभावर्णनेन रमयन्कश्चिन्नागरिक आह
पञ्चूसमऊहावलिपरिमलणसमूससन्तवत्ताणम् । कमलाण रअणिविरमे जिअलोअसिरी महम्महइ ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org