________________
काव्यमाला।
[प्रत्यूषमयूखावलिपरिमलनसमुच्चसत्पत्राणाम् ।
कमलानां रजनिविरामे जितलोकश्रीमहमहायते ॥] प्रत्यूषमयूखावलिपरिमलनसमुच्चसहलपुटानाम् ।
जितलोकश्री रजनीविरतौ किल महमहायतेऽब्जानाम् ॥ ४॥ प्रत्यूषे या ( आदित्यस्य ) मयूखावलिः तस्याः परिमलनेन संबन्धेन प्रस्फुटत्पत्रपुटानाम् अब्जानाम् । जिताः लोकाः यया एतादृशी श्रीः, वशीकृतलोकेति यावत् । रजनीविरामे महमहायते सौरमेण सर्वत्र व्याप्नोतीत्यर्थः । 'जिअलोअसिरी' इत्यस्य जीवलोकश्रीः (जीवलोके या शोभा) इति वार्थः। अतिसौरभस्य 'महक' इति व्यपदेशो हिन्दीभाषायामपि प्रसिद्धः । 'पञ्चह' शब्द आदित्यवाचको देशीति कश्चित् । 'अज्ञातरजनिविरामां क्रीडाप्रसका सखी प्रबोधयितुं कापि प्रभातं वर्णयति' इति गङ्गाधरः।
ईर्ष्यालूनां सपत्नीनां मध्ये नायिकायाः सौभाग्यं व्याजेन सूचयन्ती काचित्प्रौढा सखी सपरिहासमाह
वाउवेल्लिअसाउलि थएसु फुडदन्तमण्डलं जहणम् । चडुआरों पई मा हु पुत्ति जणहासि कुणसु ॥५॥ [वातोद्वेल्लितवस्त्रे स्थगय स्फुटदन्तमण्डलं जघनम् ।
चटुकारकं पति मा खलु पुत्रि जनहास्यं कुरु ॥] वातोद्वेल्लितवस्त्रे स्थगय स्फुटदन्तमण्डलं जघनम् ।
चटुकारकं प्रियं मा जनपरिहास्यं कलय पुत्रि ॥५॥ वातेन उद्वेलितवस्त्रे उद्वर्तिताधोवसने ! 'साउलीति' वस्त्रवाचको देशी । स्थगय आच्छादय । जनपरिहास्यं जनैरुपहसनीयं मा कलय मा कुरु । चाटुपरस्ते प्रियतमः प्रेमातिशयाजघने यच्चुम्बनदशनादिकं करोति तस्य सर्वाग्रे प्रकटनेन सं परिहासास्पदं मा कुर्वित्याशयः । 'भवतीः संभोगमात्रेपि परिहरति प्रियतमः । इमां तु केवलं चाटुबुद्ध्यैव एवं विधेष्वपि स्थानेषु चुम्बति, किं पुनर्मनसिजोन्मादमत्तः' इति सपत्नीः अति व्यज्यते। नाधुना सेयं पूर्ववद्विलासपरेति कामुकजनान्सूचयन्ती दूती आह
वीसत्थहसिअपरिसक्किआण पढमं जलञ्जली दिण्णो। पच्छा बहूअ गहिओ कुडम्बभारो णिमजन्तो ॥६॥ [विस्तब्धहसितपरिक्रमाणां प्रथमं जलाञ्जलिदत्तः ।
पश्चाद्वध्वा गृहीतः कुटुम्बभारो निमजन् ॥] दत्तो विस्त्रन्धहसितपरिक्रमाणां जलाञ्जलिः प्रथमम् । पश्चाद्वध्वा मजन् कटुम्बमारो गृहीतो हि ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org