________________
७ शतकम् ]
संस्कृतगाथा सप्तशती ।
३०७
परिक्रमः सविलासं चङ्क्रमणम् । प्राकृते 'परिसक्किअम्' परिक्रमणम् । मज्जन् अवनतिं गच्छन् । कुटुम्बभारानुरोधाद्विस्रब्धह सितादिरूपं चाञ्चल्यं परित्यज्य साम्प्रतं सा प्रौढचर्यामनुवर्तत इत्यर्थः । ' वध्वा' इति पदेन श्वश्रू प्रभृतिगुरुजनेषु वर्तमानेष्वपि कुटु-म्बस्यावनतिं वीक्ष्य सैव सम्प्रति गृहस्य कर्त्री जातेति नात्र युष्माकमवकाश इति कामिजनान्प्रत्यभिव्यज्यते । जलाञ्जलिपदेन - दत्तजलाञ्जलिर्मृतपुरुषो यथा न पुनर्दृष्टिगोचरो भवति तथा सविभ्रमहासादयो विलासा न पुनर्भाविन इति सूच्यते ।
परिहासव्याजेन नायिकायाः सौन्दर्यं सूचयन्ती सखी आह
गम्मिहिसि तस्स पास सुन्दरि मा तुरअ वड्डउ मिअङ्को । दुद्धे दुद्धं मिअ चन्दिआइ को पेच्छइ मुहं दे ॥ ७ ॥
[ गमिष्यसि तस्य पार्श्व सुन्दरि मा त्वरस्व वर्धतां मृगाङ्कः । दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥ ] यास्यसि तस्य समीपे सुन्दरि मोत्ताम्य वर्धतां चन्द्रः । कः प्रेक्षते मुखं ते ज्योत्स्नायां दुग्धमिव दुग्धे ॥ ७ ॥
मा उत्ताम्य, विलम्बेन मा खिद्यख । मा त्वरखेति यावत् । दुग्धे मिश्रितं दुग्धं यथा न पृथक् परिचीयते तथा तव मुखं चन्द्रिकातः पृथक् न परिचीयत इत्यर्थः । वर्धतां चन्द्र इत्यनेन गगनमध्यमलंकुर्वतः पूर्णचन्द्रस्य चन्द्रिकानुकारिणी ते मुखकान्तिरिति द्योत्यते । अत्र हि वाच्येनोपमामीलित संकरेण चन्द्रिकावदवदातस्य नायिका मुखस्य सौन्दर्यातिशयः ‘सुन्दरि' इति संबोधन सहकारात्सुतरां सूच्यते । अभिसारिकाविषये सेयमुदाहृता गाथा स० कण्ठाभरणे ।
ग्रामणीतनयं प्रति प्रवर्धमानं खानुरागं सूचयन्ती काचित्समानशीलां मातुलानी
माह
-
katy
जइ ज्ररह जूरउ णाम मामि परलोअवसणिओ लोओ । तह व बला गामणिणन्दणस्स वअणे वलइ दिट्ठी ॥ ८ ॥
[ यदि खिद्यते खिद्यतां नाम मातुलानि परलोकव्यसनिको लोकः । तथापि बलाडामणीनन्दनस्य वदने वलते दृष्टिः ॥ ] परलोकव्यसनिजनो मातुलि यदि ताम्यतीह ताम्यतु सः वदने दृष्टिर्वलते तदपि बलाद् ग्रामणी सूनोः ॥ ८ ॥
ग्रामणीसूनोर्वदने दृष्टिर्बलात् वलते, अवरुध्यमानापि इतस्ततः परिभ्रम्य विवशा पततीत्यर्थः । ' व्यसनि' पदेन - व्यसनी यथा लाभालाभावविचार्यैव रागान्धस्तत्रासज्यवि तथा परस्परकटाक्षनिरीक्षणा चैहलौकिक सुखलाभमनिरीक्ष्यैव परलोकार्थं मुधा व्यप्रोयं लोकः, तथा च परलोकानपेक्षैव मे तस्मिन्नासक्तिरिति ध्वन्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org