________________
३०८
काव्यमाला।
नायिकायाः प्रणयातिशयं प्रतिपादयन्ती दूती नायकं प्रत्याह
गेहं व वित्तरहिअंणिज्झरकुहरं व सलिलमुण्ण विअम् । गोहणरहि गोह व तीअ वअणं तुह विओए ॥९॥ [गृहमिव वित्तरहितं निर्झरकुहरमिव सलिलशून्यम् ।
गोधनरहितं गोष्ठमिव तस्या वदनं तव वियोगे ॥] गृहमिव वित्तविरहितं निर्झरकुहरं च सलिलशून्यमिव ।
तद्वदनं तव विरहे गोधनरहितं हि गोष्ठमिव ॥९॥ अस्तीति शेषः । अत एव न शोभत इति भावः। तद्वदनं तस्याः (नायिकायाः) वदनम् । 'कुहर' पदेन-जलप्रवाहाभावे निर्झरावकाशः केवलं भयानको गर्त एवेति सूच्यते । तथाच-गृहादिषु यथा वित्तायेव सर्वस्वम् । वित्तादीनामभावे तेषां गृहत्वादिकमेव न सिध्यति । तथा त्वमेव तस्याः सर्वखमिति प्रणयातिशयो ध्वन्यते ।
लज्जापरतन्त्रतयैव सा निजमनोभावं न प्रकाशयितुं प्रभवति, न पुनरनुरागाभावेनेति नायकमुत्कण्ठयन्ती दूती आह
तुह दंसणेण जणिओ इमीअ लजाउलाइ अणुराओ । दुग्गअमणोरहो विअ हिअअ चिअ जाइ परिणामम् ॥ १० ॥ [तव दर्शनेन जनितोऽस्या लजालुकाया अनुरागः ।
दुर्गतमनोरथ इव हृदय एव याति परिणामम् ॥] लजालोरेसस्या ह्यनुरागो दर्शनेन तव जनितः।
दुर्गतसुमनोरथ इव याति हृदय एव परिणामम् ॥ १० ॥ दरिद्रस्य (सु) उत्तमोपि मनोरथो धनाभावाद्यथा हृदय एव अवसानं गच्छति तथा तव दर्शनेन जनितो लज्जापरवशाया एतस्या अनुरागो हृदय एव पूर्णतां प्राप्नोति, लज्जावशात्तं बहिर्न प्रकटयतीत्यर्थः । तव दर्शनेन जनित उत्पादितः । पूर्वमस्या हृदि त्वद्विषयकोनुरागो नासीत् , सा त्वां यथैव दृष्टवती तथैव त्वदर्शनेन सोऽनुराग उत्पादितः । एवं च-त्वद्दर्शनमात्रेणैव सा यदा त्वय्यनुरक्तहृदयाऽभवत्तदा त्वत्समागमसुखस्य तु का कथेति नायकप्रोत्साहनं ध्वन्यते । अवर्तमानतया परोक्षाया अपि नायिकायाः कृते 'तस्याः' इत्यनुपादाय ‘एतस्या' इति कथनेन-दृढानुरागा सा हृदयेन सदैव त्वामनुवर्तमानास्तीत्यत एव 'त्वया सह प्रत्यक्षमिवोपस्थितां तां पश्यामि' इति तदनुरागातिशयो ध्वनितः । दुर्गतमनोरथोपमया-दुर्गतदशां गतस्य ‘एवं चेद्भवेत्तर्हि एवमहं कुर्याम्' इत्याशया सुतरा हृदयपरितोषकमभिलाषमात्रं यथा भवति तथैव लज्जालोरस्यास्त्वत्समागमाद्याशाजनकतया सुतरामान्तरसन्तोषकोऽनुरागो हृदय एव संचरतीति समागमोत्कण्ठातिशयो ध्वन्यते । दरिद्रपदस्थाने 'दुर्गत'पदेन-यः पूर्व धनिकोपि दैवात् (दुः) दुष्टां दशां गतः, स पूर्वमनुभूतवैभवोत्कर्षतया उच्चानभिलाषान्करोति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.