________________
७ शतकम् ] संकृतगाथासप्तशती।
३०९ धनाभावाच ते हृदय एव विलीयन्ते, इति पूर्वानुभूतविभवानन्दस्य तस्य दुःखातिशयो ध्वन्यते । दरिद्रस्य तु तावदुन्नता विचारा एव नोद्भवन्ति, अत एव न तस्य तद्वैफल्यदुःखमित्याकूतम् । ततश्च-'एवमनुरागोत्कण्ठितहृदयामपि कुलीनतया लज्जालुमिमां किं न बहु मन्यसे' इति नायकप्रोत्साहनं ध्वन्यते।
किमेवं कृशासीति प्रवासादागत्य सहासं पृच्छन्तमन्यानुरक्तं कान्तं प्रति विरहवेदनाक्लिष्टहृदयाया नायिकाया गूढमन्युसूचकं वचनचातुर्य काचित्सहचरीमाह
जं तणुआअइ सा तुह करण किं जेण पुच्छसि हसन्तो। अह गिम्हे मह पअई एव्वं भणिऊण ओरुण्णा ॥ ११ ॥ [या तनूयते सा तव कृतेन किं येन पृच्छसि हसन् ।
असौ ग्रीष्मे मम प्रकृतिरिति भणित्वावरुदिता ॥] यत्पृच्छसि विहसन्मां तनूयते या कृते नु किं ते सा?। 'प्रकृतिरसौ मे ग्रीष्मे' हन्त भणित्वैवमवरुदिता ॥ ११ ॥ या स्त्री दुर्बला भवति सा किं नु तव कृते त्वनिमित्तम् ? यन्मां दौर्बल्यकारणं सहासं पृच्छसि । या स्त्री दुर्बला भवति सा मन्निमित्तमेवेति तव हृदयेऽभिमानः, पर नेदं तथ्यमिति भावः । तर्हि कथं कृशता, तत्राह-यदियं कृशता असौ ग्रीष्मे मम स्वभाव इत्येवं भणित्वा अवरुरोद । नायकविरहनिमित्तस्यापि कार्यस्यैवमपलापेन 'जानन्नपि त्वं कौतुकादिव निःक्लेशं प्रत्युत सहासं मां पृच्छसि, तर्हि किं ते तत्कथनेन' इति गूढकोपोभिव्यज्यते । 'तनूयते' इत्याचारार्थकक्या -'त्वं खयं कपटीति मनसि मन्यसे यद् वास्तवे तथा असत्यपि मत्प्रेमप्रदर्शनार्थम् उपरितः कृशेव आचरति इति, परमिदं दौर्बल्यमेव त्वत्कारणकं नास्ति यस्याभिनय आवश्यको भवेत्' इति गूढकोपोपालम्भो व्यज्यते । 'या दुर्बला भवति सा किं सर्वापि त्वन्निमित्तम्' इति कथनेन 'बह्वीषु तव प्रणयः, अत एव त्वद्विरहे तासां दौर्बल्येन त्वया ममापि दौर्बल्यं त्वत्कारणकमेवानुमितमेवं च बहुत्र विभकप्रणयत्वादेव निरनुक्रोशतया साम्प्रतमपि सहास्योसि' इति गूढोपालम्भो ध्वन्यते । भणित्वा न तु संभाष्य, तथा च रूक्षकथनेन कोपो व्यज्यते । विरहवेदनासहनेन प्रतीक्षणौत्सुक्यमर्षणेन च तनूकृतशरीरा पूर्वमेव क्लिष्टहृदयाभूत् , इदानीमेवंविधप्रश्नेन उदितस्य कोपस्य सुभृशं गोपनेपि स दुःखावेगो न सह्योऽभवदिति बलाद्रोदनमुदभवदिति नायिकाया हृदयमार्दवमभिव्यज्यते । एव्वम्' पदस्य 'इति' गङ्गाधरकृता छाया तु विच्छायैव । 'अह' इति 'असौ' अर्थे देशी ।
अविश्रान्तं प्रियपरिरम्भमभिलषन्ती नितान्तं प्रणयपथमनुयान्तं कान्तं प्रत्यन्यापदेश विधयाह
वण्णकमरहिअस्स वि एस गुणो णवरि चित्तकम्मस्म । णिमिसं पि जंण मुञ्चइ पिओ जणो गाढमुवऊढो ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org