Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
३०२
काव्यमाला।
नवयुवत्या व्याधस्त्रियाः स्तनोद्गमं साभिलाषं वर्णयन्कश्चित्सहचरमाह
मज्झो पिओ कुअण्डो पल्लिजुआणा सवत्तीओ। जह जह वड्डन्ति थणा तह तह छिजन्ति पञ्च वाहीए ॥१७॥ [मध्यः प्रियः कुटुम्बं पल्लीयुवानः सपत्यः ।
यथा यथा वर्धते स्तनौ तथा तथा क्षीयन्ते पञ्च व्याध्याः ॥] मध्यः प्रियः कुटुम्बं पल्लीयुवकाः सपत्त्यश्च ।
क्षीयन्ते पञ्च तथा, व्याधगृहिण्याः स्तनौ यथैधेते ॥ ९७ ॥ व्याधगृहिण्याः खनौ यथा यथा वृद्धिं गच्छतस्तथा तथा मध्यः कटिः (यौवनविकासात् )क्षीयते । प्रियः (यौवनोद्दीप्तकामतया सततसुरतदौर्बल्यात् ) क्षीयते। कुटुम्बं गृहकर्तुळधस्य नवयौवनायामस्यामासक्ततया अप्रत्यवेक्षणात् क्षीयते । तस्याः पहयाः (भिल्लावासस्य) युवकाः तदुत्कण्ठया क्षीयन्ते । सपन्यस्तु ईय॑या किंवा नवयौवनायामस्यामासक्ततया पतिकृतप्रणयाभावात् क्षीयन्ते । नवयौवनायामपि गृहिणीपदेननवयौवनवशात्तथासकोस्याः प्रियतमो यथा गृहकर्तृत्वं प्रायस्तस्यामेव तिष्ठतीति स्तनोत्कर्षातिशयो ध्वन्यते। ____ 'अयं हि मालिनीकुचमालूरावलोकनलालसयैव भ्रमति, नास्य कार्यमन्यदिति निजस्य पराभिप्रायवेदनवैदग्ध्यं सूचयनागरिकः कश्चित्सहृदयमाह
मालारीए वेल्लहलबाहुमूलावलोअणसअहो । अलिअंपि भमइ कुसुमग्घपुच्छिरो पंसुलजुआणो ॥९८॥
[मालाकार्याः सुन्दरबाहुमूलावलोकनसतृष्णः। ___ अलीकमपि भ्रमति कुसुमाघप्रश्नशीलः पांसुलयुवा ॥] मालाकार्याः सुन्दरभुजमूलविलोकने सतृष्णोयम् ।
पांसुलयुवा ह्यलीकं कुसुमार्घविपृच्छको भ्रमति ॥ ९८ ॥ पांसुलः परस्त्रीलम्पटः। कुसुमाघस्य कुसुममूल्यस्य पृच्छकः सन् अलीकं भ्रमति । वेल्लहल इति सुन्दरार्थवाचको देशी। 'यो यदभिलाषुकः स छलेनापि खकार्यं साधयतीति निदर्शयन्कोपि सहचरमाह' इति गङ्गाधरः।
पूर्वसंजातसुरतसंकेतस्थानादिकं विस्मृतवन्तं 'कस्तेहम् ?' इति वदन्तं नायकं कापि सोपालम्भमाह
अकअण्णुअ घणवण्णं घणवण्णन्तरिअतरणिअरणिअरम् । जइ रे रे वाणीरं रेवाणीरं पि णो भरसि ॥ ९९ ॥ [भकृतज्ञ घनवर्ण घनपर्णान्तरिततरणिकरनिकरम् । यदि रे रे वानीरं रेवानीरमपि न सरसि ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446