Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 392
________________ ७ शतकम् ] संस्कृतगाथा सप्तशती । ३०७ परिक्रमः सविलासं चङ्क्रमणम् । प्राकृते 'परिसक्किअम्' परिक्रमणम् । मज्जन् अवनतिं गच्छन् । कुटुम्बभारानुरोधाद्विस्रब्धह सितादिरूपं चाञ्चल्यं परित्यज्य साम्प्रतं सा प्रौढचर्यामनुवर्तत इत्यर्थः । ' वध्वा' इति पदेन श्वश्रू प्रभृतिगुरुजनेषु वर्तमानेष्वपि कुटु-म्बस्यावनतिं वीक्ष्य सैव सम्प्रति गृहस्य कर्त्री जातेति नात्र युष्माकमवकाश इति कामिजनान्प्रत्यभिव्यज्यते । जलाञ्जलिपदेन - दत्तजलाञ्जलिर्मृतपुरुषो यथा न पुनर्दृष्टिगोचरो भवति तथा सविभ्रमहासादयो विलासा न पुनर्भाविन इति सूच्यते । परिहासव्याजेन नायिकायाः सौन्दर्यं सूचयन्ती सखी आह गम्मिहिसि तस्स पास सुन्दरि मा तुरअ वड्डउ मिअङ्को । दुद्धे दुद्धं मिअ चन्दिआइ को पेच्छइ मुहं दे ॥ ७ ॥ [ गमिष्यसि तस्य पार्श्व सुन्दरि मा त्वरस्व वर्धतां मृगाङ्कः । दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥ ] यास्यसि तस्य समीपे सुन्दरि मोत्ताम्य वर्धतां चन्द्रः । कः प्रेक्षते मुखं ते ज्योत्स्नायां दुग्धमिव दुग्धे ॥ ७ ॥ मा उत्ताम्य, विलम्बेन मा खिद्यख । मा त्वरखेति यावत् । दुग्धे मिश्रितं दुग्धं यथा न पृथक् परिचीयते तथा तव मुखं चन्द्रिकातः पृथक् न परिचीयत इत्यर्थः । वर्धतां चन्द्र इत्यनेन गगनमध्यमलंकुर्वतः पूर्णचन्द्रस्य चन्द्रिकानुकारिणी ते मुखकान्तिरिति द्योत्यते । अत्र हि वाच्येनोपमामीलित संकरेण चन्द्रिकावदवदातस्य नायिका मुखस्य सौन्दर्यातिशयः ‘सुन्दरि' इति संबोधन सहकारात्सुतरां सूच्यते । अभिसारिकाविषये सेयमुदाहृता गाथा स० कण्ठाभरणे । ग्रामणीतनयं प्रति प्रवर्धमानं खानुरागं सूचयन्ती काचित्समानशीलां मातुलानी माह - katy जइ ज्ररह जूरउ णाम मामि परलोअवसणिओ लोओ । तह व बला गामणिणन्दणस्स वअणे वलइ दिट्ठी ॥ ८ ॥ [ यदि खिद्यते खिद्यतां नाम मातुलानि परलोकव्यसनिको लोकः । तथापि बलाडामणीनन्दनस्य वदने वलते दृष्टिः ॥ ] परलोकव्यसनिजनो मातुलि यदि ताम्यतीह ताम्यतु सः वदने दृष्टिर्वलते तदपि बलाद् ग्रामणी सूनोः ॥ ८ ॥ ग्रामणीसूनोर्वदने दृष्टिर्बलात् वलते, अवरुध्यमानापि इतस्ततः परिभ्रम्य विवशा पततीत्यर्थः । ' व्यसनि' पदेन - व्यसनी यथा लाभालाभावविचार्यैव रागान्धस्तत्रासज्यवि तथा परस्परकटाक्षनिरीक्षणा चैहलौकिक सुखलाभमनिरीक्ष्यैव परलोकार्थं मुधा व्यप्रोयं लोकः, तथा च परलोकानपेक्षैव मे तस्मिन्नासक्तिरिति ध्वन्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446