Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 386
________________ ६ शतकम् ] संस्कृतगाथासप्तशती। ३०१ दुर्लभमभूदिति शत्रुदुर्दशया राजशौर्योत्कर्षों ध्वन्यते । 'डिम्भ' पदेन-बालस्य स्वल्पवयस्कतया हठबाहुल्यं क्षुधातुरत्वं च सूच्यते । कः को वेत्यनेन-अप्रार्थनीयोपि प्रार्थित इति दैन्यातिशयो ध्वन्यते । पथिकानामित्यनेन-मार्गगामिनामसंबन्धिनामपि सा दयनीया जातेति दारिद्यातिशयः सूच्यते । उक्त इति स्थाने अर्थित इत्यनेन-अतिदीनताप्रदर्शनपुरस्सरं तत्पातयितुं याचित इति द्योत्यते । शत्रुगेहिन्येति गृहिणीपदेन-'या गृहिणी अकार्यशतैरपि सामान्यदीनस्यापि भर्तव्या स्मृत्यादावुक्ता, सापि त्वत्कोपवशाद्वैरिनरेन्द्ररेवं कदर्थिता' इति वर्ण्यस्य राज्ञो महाप्रभावत्वं ध्वन्यते । गङ्गाधरेण ल. लितैरक्षरैरस्याशयोऽवर्ण्यत-त्वदागमनशङ्कासंजातवेपथुस्खलितचरणसंचारमशेषपरिवार विहाय बालकमादाय तव शत्रुविलासिनी महारण्यं प्राविशत् । तत्र च घनघनायमानघनच्छदच्छायतरुनिकरनिराकृतदिनकरकरोत्करश्यामायिते वर्मनि गच्छन्ती क्षुत्पीडितस्य बालकस्याकन्दितमाकर्ण्य निपुणतर निरीक्षमाणा विषमशाखान्तर्गतमेकमाम्रफलमद्राक्षीत् । तत्पातनार्थ च पान्थानयाचतेति' । यौवन-वैदग्ध्यादिभिर्विलोभनीयया मालाकारस्त्रिया लेषभणितिभिरभिमुखीकृतः कश्चिद्रसिकः शृण्वन्त्यां तस्यां साभिलाषं निजसहचरमाह मालारी ललिउल्लुलिअबाहुमूलेहिँ तरुणहिअआई। उल्लूरइ सजुरिआई कुसुमाई दावेन्ती ॥ ९६॥ [मालाकारी ललितोल्ललितबाहुमूलाभ्यां तरुणहृदयानि । उल्लुनाति सद्योऽवलूनानि कुसुमानि दर्शयन्ती ॥] युवहृदयानि लुनाति हि ललितोल्ललितोच्चबाहुमूलाभ्याम् । कुसुमानि दर्शयन्ती सद्योलूनानि मालिनी सेयम् ॥ ९६॥ सद्यस्रोटितानि कुसुमानि दर्शयन्ती सेयं मालिनी, ललिताभ्यां सुन्दराभ्याम् उल्ललिताम् उद्धृताभ्यां विशालाभ्यामिति यावत् । उच्चाभ्यां च बाहुमूलाभ्याम् (स्तनाभ्याम्) यूनां हृदयानि लुनाति व्याकुलयतीत्यर्थः । 'उल्ललिताभ्यां चञ्चलाभ्यां बाहुमूलाभ्यामुपलक्षिता' इति गङ्गाधरः । 'सद्योलूनानि कुसुमानि दर्शयन्ती हृदयानि लुनाति' इत्युभयत्र लवनसादृश्येन 'यथा मया कुसुमानि लूनानि तथा युवहृदयान्यपि लवितुं सम हम्' इति हृदयानां कुसुमसमानत्वं व्यङ्ग्यम् । ततश्च 'त्वया कानिचिद्रसिकहृदयानि पूर्वतः पाटितानि, येषां सद्यस्कतया विलम्बोपि न जातः, आईवेदनानीति यावत् । कानिचिच्च अस्मादृशां हृदयानि साम्प्रतं लुनासि, बहुतरुणहृदयनिकृन्तकत्वादहो ते नैष्ठुर्यम्' इति साभिलाष आक्षेपो ध्वन्यते। किञ्च मालिनी मालाकारीतिपदेन-'पुष्पमालानां निर्माणार्थं यथा त्वं पूर्वमेव लवनक्लेशं विसोढवन्ति कुसुमानि सूच्या विद्धवा पुनः सूत्रप्रोतानि करोषि तथा यूनामस्मादृशां हृदयानि सांप्रतं लुनासि (व्याकुलीकृत्य वशीकरोषि) पश्चाच्च निष्ठुरहृदयत्वाद्विरहवेदनारूपया सूच्या विद्धानि करिष्यसि, अहो निर्दयत्वम्' इत्युपालम्भो ध्वन्यते । सं. गा. २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446