Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 384
________________ ६ शतकम् ] संस्कृतगाथासप्तशती। २९९ सपत्नीप्रणयिनं दयितं प्रत्युपालम्भो व्यज्यते। किंवा-नवोद्गतयौवनायाः कस्याश्चित्सौभाग्यं सूचयितुमियमन्यापदेशेनोक्तिः । तथा च-'लतिका' इति कप्रत्ययेन कैशोर्यारम्भसंभिन्नायामस्यां बालायां स कोप्यनिर्वचनीयो गुणोत्कर्षोस्ति यद्वशेन रसिकैरवशतया केवलं दग्भ्यामेव साभिलाषातिशयमीक्ष्यते, ईक्षणस्याप्यलामे ईक्षितुमिष्यते वा। अर्थात् एतस्या आलोकनमात्रेपि रसिकानां तादृशी उत्कण्ठेति । 'इयं निपातुमिष्यते' इत्यनेन 'अन्यासां लतानां पुष्पं मुखद्वारा पीयते । इयं तु लतैव अक्षिद्वारा पीयते' इत्यन्यापेक्षयोत्कर्षों धन्यते। नायकमुत्कण्ठयन्ती दूती कस्याश्चित्सौन्दर्यातिशयमाह एक चिअ रूअगुणं गामणिधूआ समुबहइ । अणिमिसणअणो सअलो जीए देवीकओ गामो ॥९२ ॥ [एकैव रूपगुणं ग्रामणीदुहिता समुद्वहति । ___ अनिमिषनयनः सकलो यया देवीकृतो ग्रामः ॥] एकैव हि रूपगुणं ग्रामणिदुहिता समुद्वहति । अनिमिषनयनः सकलो यया हि देवीकृतो ग्रामः॥९२॥ एका सैव ग्रामनायकस्य दुहिता तादृशं सौरूप्यगुणं धारयति यया अनिमिषनयनतया सकलोपि ग्रामो देवत्वं नीतः। न निमिषतीसनिमिषम् , अनिमिषं नयनं यस्य सः। रूपकौतुकोल्लमचित्ततया सकलोपि ग्रामस्थो जनस्तां तथा पश्यति यथा न कस्यापि नयनयोनिमेषोपि भवतीति भावः । सकल इति पदेन-'सिद्धो वा अमरो वा एकस्य द्वयोर्वा खमाहात्म्येन देवत्वं कुर्यात् , इयं तु सकलस्य ग्रामजनस्य' इत्युत्कर्षों वन्यते । एकैवेत्येवकारेण ‘सा अद्वितीया रूपवती, ततश्च त्वरितमेव तत्प्राप्तये यतख' इति नायकप्रलोभनं ध्वन्यते। चाटूक्तिभिः प्रियतमा प्रसादयन्कश्चिदधरपानलालसा सवैदग्ध्यमाह मण्णे आसाओ चिअ ण पाविओ पिअअमाहररसस्स । तिअसेहिँ जेण रअणाअराहि अमअं समुद्धरिअम् ॥ ९३ ॥ [मन्ये आस्वाद एव न प्राप्तः प्रियतमाधररसस्य । त्रिदशैर्येन रवाकरादमृतं समुद्धृतम् ॥] आस्वाद एव मन्ये न प्राप्तः प्रियतमाधररसस्य । हन्त समुद्धृतममृतं त्रिदशै रत्नाकरायेन ॥ ९३॥ 'रत्नाकर'पदेन-रत्नानि यस्मादाविर्भूतानि तस्मात्सागरात् त्रिदशैः (यौवनमात्रदशाजुष्टैः सदा युवभिः) देवैरुद्धृतममृतमपि तदने वृथेत्युत्कर्षो ध्वन्यते। 'हन्त' पदेन'अमृतोद्धरणक्लेशस्तेषामस्थाने' इति तान् प्रति खेदो ध्वन्यते । एवेत्यनेन-यद्याखादः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446