Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 383
________________ २९८ काव्यमाला । व्रीडावशात्कुत्र व्रजाम इति यथा न जानीमः । -हीणमात्मानं निहोतुं कस्मिन्स्थाने गच्छाम इत्यपि लज्जावशाल स्फुरितमभूदित्याशयः। तां वेलामित्यत्यन्तसंयोगे द्वितीया । अयि मातरिति लोकशैलीसिद्धमान्तरिकानुतापसूचकं संबोधनम् । विकासोन्मुखयौवनायां बालायामनुरक्तचित्तं दयितं काचिदन्यापदेशेनाह पञ्चग्गप्फुल्लदलुल्लसन्तमअरन्दपाणलेहलओ । तं णत्थि कुन्दकलिआइ जंण भमरो महइ काउम् ॥९॥ [प्रत्यग्रोत्फुल्लदलोल्लसन्मकरन्दपानलुब्धः। तमास्ति कुन्दकलिकाया यन्न भ्रमरो वान्छति कर्तुम् ॥] प्रत्यग्रोत्फुल्लदलोल्लसन्मरन्दाधिपानसंलुब्धः। भ्रमरो वाञ्छति कतु यन्न हि तन्नास्ति कुन्दकलिकायाः॥९०॥ प्रत्यग्रमुत्फुल्लानि दलानि यस्याः सा प्रत्यग्रोत्फुल्लदला, एवंविधायाः कुन्दकलिकायाः उल्लसन्मकरन्दस्य अधिकं यथा तथा पाने लुब्धो भ्रमरो यत्कर्तुं न वाञ्छति तन्नास्ति । तां परितो भ्रमणं चाटूनि चुम्बनादीनि च सर्व कर्तुमिच्छतीत्यर्थः । भ्रमरपदेन 'कलिकायां साम्प्रतं मधुजननाभावात्केवलं भविष्यदाशया साभिलाषं भ्रमणमेव करोति' इति सूच्यते । तेन च 'नवयौवनविलासेनोपचिताङ्गया एतस्या बालाया भाविनि समागमसुखे बद्धाशस्त्वं साम्प्रतं तस्याः समन्ताद् भ्रमणं करोषि, परिज्ञातं मया ते मनोरहस्यम्' इति प्रियं प्रत्याकूतमभिव्यज्यते । अस्फुटयौवनायामप्येतस्यां त्वं तथा मुग्धोसि यत्सांप्रतमेव सर्वमात्ममनोरथं पूरयितुमुत्कण्ठसे । केवलमस्मदादिसंकोचादेव संयत इवासीति दयितं प्रति गूढोपालम्भश्चरमं व्यङ्ग्यम् ।। नवोद्गतयौवनायां सपत्यां सम्प्रति कामिजनलक्ष्यता जातेति सेयॊपालम्भं दयिताय सूचयितुं काचिदन्यापदेशेन मातुली लक्ष्यीकृत्याह सो को वि गुणाइसओ ण आणिमो मामि कुन्दलइआए। अच्छीहिं चिअ पाउं अहिलस्सइ जेण भमरेहिम् ॥ ९१॥ [स कोऽपि गुणातिशयो न जानीमो मातुलानि कुन्दलतिकायाः। __ अक्षिभ्यामेव पातुमभिलष्यते येन भ्रमरैः ॥] स हि कोपि गुणातिशयो मातुलि जाने न कुन्दलतिकायाः । हरभ्यामेव निपातुं भ्रमरैरभिलष्यते येन ॥ ९१ ।। एतस्यां क एतादृशो गुणोस्ति येन परितः सुरक्षिततया सविधोपसरणानवसरात्केवलं नयनाभ्यामेव रसिककामुकैरियममिवीक्ष्यते । तथा च 'सेयं बहुकामुकानामधुनैव लक्ष्यभूता जाता, अग्रे तु न जाने किं भावि' इति नायकं प्रति भ्रमरैरिति बहुवचनेन ईर्ष्याबीजं निभृतमुपक्षिप्यते । अथवा-'अहं तु तादृशं गुणमस्या न जाने, तथापि स्वमहर्निशमेनामनवसरे केवलं नयनाभ्यामेव विलोकयसि । कोयमस्थाने संरम्भः' इति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446