Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 381
________________ २९६ काव्यमाला । नवपल्लवं विषण्णाः पथिकाः पश्यन्ति.चूतवृक्षस्य । लोहितसमूहराजितमुद्यत्कामस्य हस्तभल्लमिव ॥ ८५॥ उद्यतः विरहिनिपीडनाय साम्प्रतमुजम्भमाणस्य कामस्य लोहितसमूहराजितं रक्तभराक्तं हस्तविधृतं कुन्तमिव पश्यन्ति । भल्लाने हस्तपदप्रयोगेण 'स भल्लः कामेन साम्प्रतं हस्ते धृतः' इति भल्लस्य भेदनकार्यव्यापृतता ध्वन्यते । लोहितसमूहेन लिप्तं युक्तमित्याद्यनुक्त्वा 'राजितम्' इति कथनेन कामभल्लस्य लोहितलिप्तता शोभेति विरहिवर्गार्थ क्रूरतातिशयो ध्वन्यते । विषण्णाः विषादं प्राप्तवन्तः पश्यन्तीत्यत्र भूतकालिकेन क्तेन सह वर्तमानकालिकस्य लटः संबन्धात् 'विरहिभीषकश्चतपल्लवः पश्चादृष्टौ पतति विषादस्तु ततः पूर्वमेवारब्धो भवतीत्यतिशयितविषादयोतिका अतिशयोक्तिः सूच्यते । ततश्च-पथिकतां स्वीकुर्वतस्तवापि सेयं दशाऽनुपदभाविनीति प्रियतमं प्रति व्यज्यते । 'उप्पङ्ग' शब्दः समूहवाचको देशी । विदेशगमनानायकं निवारयन्ती काचिनिपुणनितम्बिनी निजसखीमाह महिलाणं चिअ दोसो जेण पवासम्मि गविआ पुरिसा । दोतिण्णि जाव ण मरन्ति ता ण विरहा समप्पन्ति ॥८६॥ [महिलानामेव दोषो येन प्रवासे गर्विताः पुरुषाः । द्वे तिस्रो यावन्न नियन्ते तावन्न विरहाः समाप्यन्ते ॥] दोषोयं महिलानां यद्धि प्रवसन्ति गर्विताः पुरुषाः। विरहान्तो नहि तावद्वित्रा यावन्नियन्ते नो ॥८६॥ द्वित्राः द्वे तिस्रो वा प्रोषितपतिका यावन्न म्रियन्ते तावद्विरहान्तो विरहसमाप्ति - त्यर्थः । प्रियामरणं विलोक्यैव एते प्रवासं त्यक्ष्यन्तीति भावः । 'महिला' 'पुरुष'पदोपादानेन 'मह्यन्ते तस्मान्महिलाः' इति विनय-सहनशीलतादिगुणभाजनतया आत्मनः पूजनीयतागुणं रक्षन्त्यः स्त्रियः 'पुर' अग्रगमने इतिधातुनिष्पन्नान् अत एव अग्रगामि. तागर्वण अवलिप्तान्पुरुषान् शालीनतया ताः सहन्ते इति पुरुषान्प्रत्युपालम्भो ध्वन्यते । 'यावन्न मरिष्यन्ति तावद्विरहा न समाप्यन्ते' इति भविष्यत्स्थाने 'म्रियन्ते' इति वर्तमानोक्त्या-तव विरहे मम भरणमदूरभावि विचारयेति ध्वन्यते । नायिकासविधमुपगन्तुं नायकं त्वरयन्ती दूती आह बालअ दे वच्च लहुं मरइ वराई अलं विलम्बेण । सा तुज्झ दंसणेण वि जीवेजइ णत्थि संदेहो ॥ ८७ ।। [बालक हे व्रज लघु म्रियते वराकी अलं विलम्बेन । सा तव दर्शनेनापि जीविष्यति नास्ति संदेहः ॥] ब्रज लघु बाल म्रियते वराकिकाऽलं विलम्बेन । निःसंदेहं तव सा जीविष्यति दर्शनेनापि ॥ ८७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446