Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 382
________________ ६ शतकम् सस्कृतगाथासप्तशती। २९७ _ 'दे' शब्दः सानुनयसंबोधने । तस्याः प्रेमपरिपाकानभिज्ञत्वाद् हे बालक ! लघु शीघ्रं व्रज। त्वया परित्यक्तत्वात् शोचनीयतया वराकिका दीना सा म्रियते । 'क' प्रत्ययेन 'मरणसमयेपि न तां दयनीयां प्रत्यवेक्षसे' इति कारुण्यातिशयो ध्वन्यते। तवेत्यनेन 'अन्येषां पुनः पीयूषाद्यौषधप्रदानेनापि न जीविष्यति' इति सूच्यते । दर्शनेनापीत्यपिना-आलिङ्गनचुम्बनाधरपानादीनां तु किं वक्तव्यमिति सूच्यते। "म्रियते' इति वर्तमानत्वोक्त्या-त्वदानयनार्थमिहागमनसमये सा जीविताभूदिदानीमियता विलम्बन सा म्रियमाणास्ति' इति व्यज्यते । 'मम तत्स्थानप्राप्तेः पूर्वमेव मृतायां तस्यां किं फलं गमनेनेति' चेद्धदये संदिह्यसे, तदर्थमाह-जीविष्यतीति । यदि मृतापि भवेत्तदापि सा जीविष्यति, किं पुनर्पियमाणेति भावः । __ विनाशकारणमपि मुग्धतया त्वं सुखहेतुं मन्यसे इत्यन्यापदेशेन कोपि निजसहचरं शिक्षयति तम्मिरपसरिअहुअवहजालालिपलीविए वणाहोए । किंसुअवणन्ति कलिऊण मुद्धहरिणो ण णिक्कमइ ॥ ८८॥ [ताम्रवर्णप्रसृतहुतवहज्वालावलिप्रदीपिते वनाभोगे। किंशुकवनमिति कलयित्वा मुग्धहरिणो न निष्कामति ॥] आताम्रविसरदनलज्वालावलिदीपिते वनाभोगे। किंशुकवनमिति मत्वा निष्कामति मुग्धहरिणो न ॥ ८८॥ आताम्रा प्रसरन्ती या अनलज्वालावलिः (वह्निशिखाश्रेणिः) तया दीपिते प्रज्वलिते वनप्रान्तरे । अतिताम्राभिर्वह्निशिखाभिर्व्याप्तं वनं रक्तवर्णैः किंशुकवृक्षैर्वलयितमिति मत्वा मुग्धतया हरिणो वनाद्बहिर्न गच्छतीति भावः । तथा चात्र स्वतःसंभविना भ्रान्तिमदलङ्कारण 'परललनालम्पटस्त्वमन्तःकोपकषायितैरपि बहिःप्रियदर्शनैर्जनः परिवृते त्वत्प्रेयसीसदने अनिष्टहेतुमपि तत्संसर्ग सुधासदृशं मन्यमानो मोहमुग्धतया न तदावासं परित्यजसि' इति वस्तु व्यज्यते। शृण्वन्तमुपपतिं प्रति काचिदात्मनः कामकलाकौशलं ख्यापयितुमन्तरङ्गसखीमाह णिहुअणसिप्पं तह सारिआइ उल्लाविरं म्ह गुरुपुरओ। जह तं वेलं माए ण आणिमो कत्थ वच्चामो ॥ ८९ ॥ [निथुवनशिल्पं तथा शारिकयोल्लपितमस्माकं गुरुपुरतः । यथा तां वेलां मातनं जानीमः कुत्र प्रजामः ॥] शारिकया गुरुपुरतो निधुवनशिल्पं तथा किलोल्लपितम् । तां वेलामयि मातर्यथा बजामः कुतो न जानीमः॥ ८९ ॥ निधुवनशिल्पं सुरतवैचित्र्यम् । गुरुजनानां पुरतः अग्रतः। उल्लपितम् अर्थमपरिज्ञायापि यथा दृष्टं श्रुतं वा तथा जल्पितमित्यर्थः । अयि मातः तां वेलां तस्यां वेलायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446