Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
२९४
काव्यमाला |
[ कियन्मानं भविष्यति सौभाग्यं प्रियतमस्य भ्रमणशीलस्य । महिला मदनक्षुधा कुलकटाक्ष विक्षेपगृह्यमाणम् ॥ ] सौभाग्यं दयितस्य भ्रमतो भविता कियन्मात्रम् । महिला स्मरक्षुधाकुलकटाक्षविक्षेपगृह्यमाणं हि ॥ ८१ ॥
भ्रमतः अन्यनारीषु भ्रमणशीलस्य दयितस्य । महिलानां मदनलक्षणया क्षुधया आकुलेन कटाक्षविक्षेपेण गृह्यमाणं विवशीक्रियमाणं सौभाग्यं कियन्मात्रं भविता भविष्यति । महिला एतस्मिन् मदनक्षुधाकुलतयैवाऽऽसज्यन्ति न सत्यप्रेम्णा । अयमपि च तथा भवन्नेव तद्वशो जातः । एवंस्थितौ मदनलक्षणक्षुदुत्कण्ठाशान्तौ ताः कियदासक्ता भवेयुः ? कियन्मात्रं चास्य सौभाग्यं स्यात् ? अस्थायि सर्वमिदमित्यर्थः । सर्वमेतदनुभूय स्वयमस्य मत्प्रणयपरिचयो भवेदिति भावः । ' कटाक्षध्वस्तधैर्यस्य स्वत एवास्य चाञ्चल्यं यास्यति । किमस्य प्रियाचरणेन' इति गङ्गाधरः । अस्पष्टमिवेदम् ! ध्वस्तधैर्य एव चञ्चलो भवतीति अधैर्यस्य चाञ्चल्यापगमः कथम् ।
सर्वदा परगृहेषु निलीय परनारीविलासलम्पटं निजदयितं रात्रिशेषे कुक्कुटरुतेन प्रतिबुध्य प्रतिदिनाभ्यासवशात्परवसतिशङ्कया पलायनेच्छु काचिदाह---
णिअधणिअं उवऊहसु कुक्कुडसन झत्ति पडिबुद्ध । परवसइवाससङ्किर णिअए वि घरम्मि मा भासु ॥ ८२ ॥ [ निजगृहिणीमुपगूहस्व कुक्कुटशब्देन झटिति प्रतिबुद्ध । परवसतिवासशङ्किन्निजकेऽपि गृहे मा भैषीः ॥ ] निजगृहिणीमुपगूहेर्झटिति प्रतिबुद्ध कुक्कुटरुतेन । परवसतिवा सशङ्किन्निजकेपि गृहेऽत्र मा भैषीः ॥ ८२ ॥
उपगूहैः परिरभव | प्रार्थनायां लिङ् | परवसतौ परगृहे यो वासः अवस्थानं तच्छ'ङ्किन् ! मूले 'वणिआ' शब्दः स्वभार्यावाचको देशी । गृहिण्या अपि स्वमुखेन 'गृहि
मुहे:' इति कथनेन - ' प्रतिदिनाभ्यासवशात्त्वं सर्वत्र परनारीमेव विलोकयसि, किं त्वहं न तथा । पश्य माम्' इति प्रियवैलक्ष्यापादनं ध्वन्यते । किंवा गृहिणीपदेन त्वत्प्रतीक्षया शून्यगृहोषितां त्वद्गृहाधिकारिणीमपि त्वं सर्वदाऽवहेलयसीत्युपालम्भो ध्वन्यते । 'उपगूहे:' इत्युक्त्या - प्रतिदिनाभ्यासवशात्तव दृष्टौ सर्वदा परनार्येव वसति । अत एव दर्शनं विहाय उपगूहनेन मामभिजानीहीति दयितविलक्षीकरणं व्यज्यते ।
I
प्रवासं गच्छतो दयितस्य गमननिरोधार्थं कापि दुःशकुनं वा जलदकालस्य विरहिदुःसहत्वं वा सूचयितुं निजसखीमाह
खरपवणर अगलत्थिअगिरिऊडाव डणभिण्णदेहस्स । धुकधुकर जीअं व विजुआ कालमेहस्स || ८३ ॥
Jain Education International
--
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446