Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 372
________________ २७ ६ शतकम् ] संस्कृतगाथासप्तशती । अयि गर्ज ममैवोपरि सर्वस्थानापि लोहहृदयस्य । जलधर लम्बालकिकां मा रे तां मारयिष्यसि वराकीम् ॥६६॥ तादृशी शिरीषमृदुलाङ्गी विरहहुतवहे क्लेशितवत्त्वाल्लोहवत्कठोरहृदयस्य ममैवोपरि सर्वस्थान्नापि सर्वबलेन गर्ज । तादृशङ्करहृदयोहं त्वद्गर्जनं सोढुं समर्थः, विरहदुर्बलदेहा सा मृदङ्गी तु कथं जीवेदिति भावः । विरहवेदनावर्द्धकत्वात् 'रे' इत्याक्रोशसंबोधनम् । लम्बालकशोभिनी तां मा मारयिष्यसि । लम्बालकिकामित्यनेन-'जलधारकत्वात्कृष्णवर्णस्त्वम् अस्या अपि मधुरमेचकमायतं च केशकलापमालोक्य ईर्ष्यावशादनिष्टं कुर्याः' इति सूच्यते। विरहक्लिष्टतया पूर्वमेव दयापात्रं सा । इदानीं त्वत्तदुःखा सा सुतरां दयनीयेति वराकीपदेन लम्बालकिकामिति कप्रत्ययेन च ध्वन्यते । शालिक्षेत्रस्याभिसारयोग्यता सूचयितुं काचिदन्यापदेशेन हेमन्तोपक्रम वर्णयति पङ्कमइलेण छीरेकपाइणा दिण्णजाणुवडणेण । आनन्दिजइ हलिओ पुत्तेण व सालिछेत्तेण ॥ ६७ ॥ [पङ्कमलिनेन क्षीरै कपायिना दत्तजानुपतनेन । आनन्द्यते हालिकः पुत्रेणेव शालिक्षेत्रेण ॥] क्षीरैकपायिना दत्तजानुपतनेन पङ्कमलिनेन । पुत्रेणेव हि क्षालिक्षेत्रेणानन्द्यते हलिकः॥६७॥ 'क्षीरं तण्डुलारम्भकं जलं दुग्धं च । जानु ऊरुपर्व, उपचाराद्धान्यनालग्रन्थिश्च ।' गङ्गाधरः। दत्तं जानुभ्यां पतनं येन, जानुद्वारा कृतगमन इत्यर्थः पुत्रपक्षे । दत्तं कृतं जानुस्थानीयानां धान्यनालग्रन्थीनां ( 'पोटा') आरम्भणं येन, ततश्च-धान्यनालग्रन्थीनामारम्भो यस्मिन् जातस्तादृशमिति क्षेत्रपक्षे । अन्यस्मिन्ननुरक्तां काञ्चन सुन्दरी खानुगामिनी कर्तुं खलनिन्दाव्याजेन कश्चित्पूर्वनायकनिन्दामुपक्रमते कह मे परिणइआले खलसङ्गो होहिइ ति चिन्तन्तो । ओणअमुहो समूओ रुवइ व साली तुसारेण ॥ ६८ ॥ [कथं मे परिणतिकाले खलसङ्गो भविष्यतीति चिन्तयन् । अवनतमुखः सशूको रोदितीव शालिस्तुषारेण ॥] खलसङ्गो मे परिणतिकाले कथमिव भवेदिति ध्यायन् । अवनतमुखः सशूकः शालिः किल रोदितीव नीहारैः ॥ ६८ ॥ परिणतिकाले पक्वतादशायां पक्षान्तरे च वयःपरिणामकाले । खलस्य धान्यमर्दनस्थानस्य (खलिहान), दुर्जनस्य च सङ्गः कथमिव न जाने कीदृशदुःखावहो भवेदिति चिन्तां कुर्वन् । परिपाकगुरुतया अवनतं शीर्षाग्रं यस्य सः, पक्षान्तरे च शोकेनावनतवदनः । शूकेन धान्यकण्टकेन सहितः पक्षान्तरे च कण्टकायितेन शोकेन सहितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446