________________
२७
६ शतकम् ] संस्कृतगाथासप्तशती ।
अयि गर्ज ममैवोपरि सर्वस्थानापि लोहहृदयस्य ।
जलधर लम्बालकिकां मा रे तां मारयिष्यसि वराकीम् ॥६६॥ तादृशी शिरीषमृदुलाङ्गी विरहहुतवहे क्लेशितवत्त्वाल्लोहवत्कठोरहृदयस्य ममैवोपरि सर्वस्थान्नापि सर्वबलेन गर्ज । तादृशङ्करहृदयोहं त्वद्गर्जनं सोढुं समर्थः, विरहदुर्बलदेहा सा मृदङ्गी तु कथं जीवेदिति भावः । विरहवेदनावर्द्धकत्वात् 'रे' इत्याक्रोशसंबोधनम् । लम्बालकशोभिनी तां मा मारयिष्यसि । लम्बालकिकामित्यनेन-'जलधारकत्वात्कृष्णवर्णस्त्वम् अस्या अपि मधुरमेचकमायतं च केशकलापमालोक्य ईर्ष्यावशादनिष्टं कुर्याः' इति सूच्यते। विरहक्लिष्टतया पूर्वमेव दयापात्रं सा । इदानीं त्वत्तदुःखा सा सुतरां दयनीयेति वराकीपदेन लम्बालकिकामिति कप्रत्ययेन च ध्वन्यते । शालिक्षेत्रस्याभिसारयोग्यता सूचयितुं काचिदन्यापदेशेन हेमन्तोपक्रम वर्णयति
पङ्कमइलेण छीरेकपाइणा दिण्णजाणुवडणेण । आनन्दिजइ हलिओ पुत्तेण व सालिछेत्तेण ॥ ६७ ॥ [पङ्कमलिनेन क्षीरै कपायिना दत्तजानुपतनेन ।
आनन्द्यते हालिकः पुत्रेणेव शालिक्षेत्रेण ॥] क्षीरैकपायिना दत्तजानुपतनेन पङ्कमलिनेन ।
पुत्रेणेव हि क्षालिक्षेत्रेणानन्द्यते हलिकः॥६७॥ 'क्षीरं तण्डुलारम्भकं जलं दुग्धं च । जानु ऊरुपर्व, उपचाराद्धान्यनालग्रन्थिश्च ।' गङ्गाधरः। दत्तं जानुभ्यां पतनं येन, जानुद्वारा कृतगमन इत्यर्थः पुत्रपक्षे । दत्तं कृतं जानुस्थानीयानां धान्यनालग्रन्थीनां ( 'पोटा') आरम्भणं येन, ततश्च-धान्यनालग्रन्थीनामारम्भो यस्मिन् जातस्तादृशमिति क्षेत्रपक्षे ।
अन्यस्मिन्ननुरक्तां काञ्चन सुन्दरी खानुगामिनी कर्तुं खलनिन्दाव्याजेन कश्चित्पूर्वनायकनिन्दामुपक्रमते
कह मे परिणइआले खलसङ्गो होहिइ ति चिन्तन्तो । ओणअमुहो समूओ रुवइ व साली तुसारेण ॥ ६८ ॥ [कथं मे परिणतिकाले खलसङ्गो भविष्यतीति चिन्तयन् ।
अवनतमुखः सशूको रोदितीव शालिस्तुषारेण ॥] खलसङ्गो मे परिणतिकाले कथमिव भवेदिति ध्यायन् ।
अवनतमुखः सशूकः शालिः किल रोदितीव नीहारैः ॥ ६८ ॥ परिणतिकाले पक्वतादशायां पक्षान्तरे च वयःपरिणामकाले । खलस्य धान्यमर्दनस्थानस्य (खलिहान), दुर्जनस्य च सङ्गः कथमिव न जाने कीदृशदुःखावहो भवेदिति चिन्तां कुर्वन् । परिपाकगुरुतया अवनतं शीर्षाग्रं यस्य सः, पक्षान्तरे च शोकेनावनतवदनः । शूकेन धान्यकण्टकेन सहितः पक्षान्तरे च कण्टकायितेन शोकेन सहितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org